________________
प्रथमं विनयाध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥३॥
अणुसासिओ न कुप्पेजा, खंति सेवेज पंडिए । खुद्देहिं सह संसम्गि, हासं कीडं च वजए॥९॥
व्याख्या-'अनुशिष्टः' कथञ्चित् परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यात् ? 'क्षान्ति' XIपरुषभाषणादिसहनात्मिकां 'सेवेत' भजेत, यतः-"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमल
यनिःसृतो, वचनरसश्चन्दनस्पर्शः ॥ १॥" 'पण्डितः' बुद्धिमान् । तथा 'क्षुद्रैः' शीलहीनैः पार्श्वस्थादिभिः 'सह' समं "संसग्गि" ति प्राकृतत्वात् संसर्ग 'हासं' हसनं 'क्रीडां च' अन्त्याक्षरिका-प्रहेलिकादानादिरूपां वर्जयेत् , लोकागमविरुद्धत्वाद् गुरुकर्मबन्धहेतुत्वाच्चैषामिति सूत्रार्थः ॥ ९॥ पुनरप्यन्यथा विनयमाह
मा य चंडालियं कासी, बहुयं मा य आलवे कालेण य अहिन्जित्ता, तओझाएज एक्कओ॥१०॥ __व्याख्या-'मा' निषेधे, 'चः' समुच्चये, चण्डः-क्रोधस्तदशाद् अलीकम्-अनृतभाषणं चण्डालीकं, लोभाद्यलीकोपलक्षणमेतत् , 'मा कार्षिः' मा विधासीः, आह च-"मुसावाओ य लोगम्मि, सबसाहूहिं गरहिओ। अविस्सासो य भूयाणं, तम्हा मोसं विवजए ॥१॥" बढेव 'बहुकम्' अपरिमितमालजालरूपं मा च 'आलपेत्' भाषेत । उक्तं च-"महुरं निउणं थोवं, कजावडियं अगबियमतुच्छं। पुश्विं मइसंकलियं, भणंति जंधम्मसंजुत्तं ॥१॥" बह्वालपनादध्ययनादिक्षतिर्वातक्षोभादिसम्भवादिति । किं पुनः कुर्यात् ? इत्याह-'कालेन' प्रथमपौरुष्यादिलक्षणेन 'चः' पुनरर्थे 'अधीत्य' पठित्वा पृच्छाद्युपलक्षणमेतत् , 'ततः' अध्ययनादनन्तरमिति गम्यते 'ध्यायेत चिन्तयेत 'एककः' भावतो रागादिरहितो द्रव्यतो विविक्तशयनासनादिसंस्थ इति सूत्रार्थः॥१०॥ इत्थमकृत्यनिषेधः कृत्यविधिश्वोपदिष्टः। कदाचिदेतद्विपर्ययसम्भवे किं करणीयम् ? इत्याहआहच्च चंडालियं कटु,न निण्ह विज कयाइ वि।कडं कडेत्ति भासिज्जा, अकडं नो कडित्ति य॥११॥
"मृषावादश्च लोके सर्वसाधुभिर्गर्हितः । अविश्वासश्च भूतानां तस्मान्मृषां विवर्जयेत् ॥ १॥" २ "मधुरं निपुणं कार्यापतितमगर्वितमतुच्छम् । पूर्व मतिसंकलितं भणन्ति यद् धर्मसंयुक्तम् ॥१॥"
॥३॥