SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ त्वात् शुन्याः 'सूकरस्य च' दृष्टान्तस्य 'नरस्य च' दार्टान्तिकस्य 'विनये' वक्ष्यमाणस्वरूपे स्थापयेदात्मानम् आत्मनैवेति गम्यते, इच्छन् 'हितम् ऐहिकमाऽऽमुष्मिकमात्मनः, विनयादेव हि तत्सम्भवात् । आह च-"विणया णाणं णाणाओ दंसणं दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सोक्खं निराबाहं ॥१॥” इति सूत्रार्थः॥६॥ यतश्चैवमतः किम् ? इत्याहतम्हा विणयमेसिजा, सीलं पडिलभेजओ । वुद्धपुत्ते नियागट्ठी, ण णिकसिजइ कण्हुइ॥७॥ व्याख्या-तस्माद् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां कुर्यात् । किं पुनर्विनयस्य फलं येनैवमुपदिश्यते ? इत्याह-'शीलम्' उक्तस्वरूपं 'प्रतिलभेत' प्राप्नुयात् 'यतः' विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तम् । अस्याऽपि किम् ? इत्याह-बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, "ऍत्ता य सीसा य समं विभत्ता" इतिवचनात् , स्वरूपविशेषणमेतत् , नियागार्थी' मोक्षार्थी सन् 'न निष्कास्यते' न बहिःक्रियते 'कुतश्चिद्' गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्यः क्रियत इति भाव इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनय एषयितव्यः ? इत्याह|णिसंते सिया अमुहरी, बुद्धाणं अंतिए सया। अत्थजुत्ताणि सिक्खिजा, गिरद्वाणि उ वजए॥८॥ | व्याख्या-'निशान्तः' नितरामुपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया 'स्यात्' भवेद् अमुखरः सन् 'बुद्धानाम्' आचार्यादीनाम्। 'अन्तिके' समीपे 'सदा' सर्वकालम् , किम् ? इत्याह-'अर्थयुक्तानि' हेयोपादेयार्थाभिधायकानि अर्थादागमवचांसि 'शिक्षेत' अभ्यस्येत् 'निरर्थकानि' उक्तविपरीतानि पुनर्वैशेषिक-वात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् । आह च-"सिंगाररसुत्तुइया, मोहमई फुफुमा हसहसेइ । जं सुणमाणस्स कहं, समणेण न सा कहेयवा ॥ १॥" इति सूत्रार्थः ॥ ८ ॥ कथं पुनरर्थयुक्तानि शिक्षेत ? इत्याह "विनयाज्ज्ञानं ज्ञानादर्शनं दर्शनाचरणं च । चरणान्मोक्षो मोक्षे सौख्यं निराबाधम् ॥१॥" २ "पुत्राश्च शिप्याश्च समं विभक्ताः"। ||३ "शृङ्गाररसोत्तेजिता मोहमयी करीषाग्निः हसहसायति । यां शृण्वतः कथा श्रमणेन न सा कथयितव्या ॥१॥" DXOXOXOXOXOXOXOXOXOXEIXO
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy