SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२॥ समीवं । भणिओ-तहा करेहि जहा वेसाली घिप्पइ। ततो तेण अब्भंतरं गंतूण नेमित्तियवेसो कओ। मुणिओ मुणिसुप्रथमं विनवयथूभप्पभावो । एसो लोगेण पुच्छिओ-कहिं नगररोहो अवगच्छिस्सइ ? । तेण भणियं-जइ एयं थूभं अवणेह । याध्ययअवणीयं । भग्गा नयरी हलेहिं वाहिय त्ति ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमविनीतस्यैव सदोषतामाह नम्। जहा सुणी पूइकण्णी, निक्कसिजइ सवसो । एवं दुस्सीलपडिणीए, मुहरी निक्कसिजति ॥४॥ व्याख्या-'यथा' यद्बत् शुनी स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथितगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् कर्णी-श्रुती यस्याःसा पूतिकर्णी 'निष्कास्यते' निर्वास्यते 'सर्वतः' सर्वेभ्यो गृहाङ्गणादिभ्यः लेष्टुलकुटादिभिः, प्राकृतत्वाच्च 'सबसो' त्ति शसुप्रत्ययः,उपनयमाह-एवम्' अमुना प्रकारेण दुष्ट-रागाद्युपहतं शीलं-स्वभावो यस्य स दुःशीलः प्रत्यनीकः प्राग्वद् अनयोर्विशेषणसमासः, 'मुखरः बहुविधाऽसम्बद्धभाषी 'निष्कास्यते' सर्वतः कुलगणसङ्घादेरिति सूत्रार्थः॥४॥ आह-अनर्थहेतौ दौःशील्ये किमित्यसौ रमते ? उच्यते-पापोपहतमतित्वात्तत्रैवास्य रतिः, एतदेव दृष्टान्तपूर्वकमाह कणकुंडगं चइत्ता णं, विट्ठे भुंजह सूयरो। एवं सीलं चहत्ता णं, दुस्सीले रमई मिए ॥५॥ व्याख्या कणाः-तण्डुलास्तेषां तन्मिश्रो वा कुण्डकः-कुक्कसः कणकुण्डकस्तं त्यक्त्वा 'विष्टां' पुरीषं 'भुङ्क्ते' अभ्यवहरति 'सूकरः' गत्तोसूकरो यथेति गम्यते, एवं 'शीलं' प्रस्तावाच्छोभनं त्यक्त्वा दुष्टं शीलं दुःशीलं तत्र 'रमते' धृतिमाधत्ते मृग इव 'मृगः' अज्ञत्वादविनीत इति योगः । इदमत्र हृदयम-यथा मृगो मरणापायमपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति तथैषोऽपि दुःखाकीर्णभवभ्रमणमनवगच्छन् निर्विवेकतया विस्थानीये दुःशीले रमत इति सूत्रार्थः ।।५।। उक्तोपसंहारपूर्व कृत्योपदेशमाह ॥२॥ सुणियाऽभावं साणस्स, सूयरस्स नरस्स या विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो॥६॥ व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' कुत्सार्थत्वान्ननः अशोभनं भावं सर्वतो निःकासनलक्षणं "साणस्स" त्ति प्राकृत XOXOXOXOXOXOXOK
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy