SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ . ko चतुर्थ श्रीउत्तराध्ययनसूत्रे श्रीनमिचन्द्रीयवृत्तिः | असंस्कृताख्यमध्ययनम्। ॥८ ॥ कदाशयः । यत आहुः-धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १॥ इति तन्मतमपाकर्तुमाह जे पावकम्मेहि धणं मणुस्सा, समाययंती अमई गहाय।। ...... पहाय ते पासपयहिए णरे, वेराणुबद्धा नरयं उति ॥२॥ व्याख्या-'ये' केचन 'पापकर्मभिः' कृषिवाणिज्यादिभिः अनुष्ठानैः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनाद् इत्थमुक्तम् , 'समाददते' स्वीकुर्वन्ति 'अमति' कुमतिम् उक्तरूपां 'गृहीत्वा' सम्प्रधार्य 'प्रहाय' प्रकर्षेण हित्वा धनमेव प्रकृतं, 'ते' धनैकरसिकाः पाशा इव पाशा:-बन्धनहेतुत्वात् रूयादयः । उक्तश्च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, णराण बंधत्थमित्थीओ ॥ १ ॥ उन्नयमाणा अक्खलिय-परकमा पंडिया कई जे य । महिलाहिं अंगुलीए, नच्चाविजंति ते वि नरा ॥ २॥" तेषु पाशेषु “पयट्टिय" त्ति आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुरुषाः, पुनरुपादानं आदरख्यापनार्थ, 'वैरानुबद्धाः' पापेन सततमनुगताः 'नरक' रत्नप्रभादिकम् 'उपयान्ति' गच्छन्ति । ते हि द्रव्यमुपाय॑ रुयादिष्वभिरमन्ते, तदभिरत्या च नरकादिगतिभाज एव भवन्तीति भावः । तस्माद् इहैव बन्ध-वध-मारणहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवति अर्थ | इति तदभिलाषेण धम्म प्रति मा प्रमादीः इत्युक्तं भवति । इहैवैहिकामुष्मिकापायदर्शकमुदाहरणम् । तत्र च वृद्धसम्प्रदाय:___ एगम्मि नगरे एगो चोरो, सो रत्तिं विभवसंपन्नेसु घरेस खत्तं खणिउं सुबहु दबजायं घेत्तुं अप्पणो घरे १ “वारि गजानां जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुनकानां, नराणां बन्धार्थ स्त्रियः॥१॥ उन्नतमाना अस्खलितपराक्रमाः पण्डिताः कवयो ये च । महिलाभिरल्या, नर्यन्ते तेऽपि नराः ॥२॥" | अर्थाभिलाषेण धर्म प्रति मा प्रमादी, अत्र चौरदृष्टान्तः। ॥८ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy