________________
अथ
स्कृताख्यमध्ययनम्।
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
असंस्कृतमध्ययनम्।
॥७८॥
उक्तं तृतीयमध्ययनम् । अधुना चतुर्थावसरः । तस्य चायमभिसम्बन्धः-इहानन्तराध्ययने चत्वारि मानुषत्वादीनि अङ्गानि दुर्लभानीत्युक्तम् । इह 'तत्प्राप्तावपि महते दोषाय प्रमादः, महते च गुणाय अप्रमादः' इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह, इत्यनेन सम्बन्धेनाऽऽयातस्यास्य प्रमादाऽप्रमादनाम्न इदं आदिसूत्रम्
असंखयं जीविय मा पमायए, जरोवणीयस्स हु णत्थि ताणं ।।
एयं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गर्हिति ॥१॥ व्याख्या-'असंस्कृतं' असंस्करणीयं 'जीवितं' प्राणधारणम् यत्नशतैरपि सतो वर्द्धयितुं त्रुटितस्य च कर्णपाशवद् अस्य सन्धातुमशक्यत्वात् । यत उक्तम्-"वासाइं दो व तिन्नि व, वाहिजइ जरघरं पि सीडेवि । सा का वि नत्थि नीई, सीडिजइ जीवियं जीए ॥१॥" मङ्गलैः कौतुकर्योगैर्विद्यामत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥ २ ॥ ततः किम् ? इत्याह-'मा प्रमादीः' किमुक्तं भवति ?-यदीदं कथञ्चित्संस्कर्तुं शक्यं स्यात् चतुरङ्ग्यवाप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां नष्टा पुनर्दुर्लभेति मा प्रमादं कृथाः । स्यादेतत्वार्द्धक्ये धर्म विधास्यामि, इत्याशङ्कयाह-जरां तु उपनीतः-प्रापितो गम्यमानत्वात् स्वकर्मभिर्जरोपनीतः तस्य नास्ति
१ "वर्षाणि द्वे वा त्रीणि वा, वाह्यते जीर्णगृहमपि सीवित्वा । सा कापि नास्ति नीतिः, सीव्यते जीवितं यया ॥१॥"
चतुरजयवाप्तावपि महते दोषाय प्रमादः।
॥७८॥