SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ न्यतुल्यान् 'यथायुः' आयुषः अनतिक्रमेण 'पूर्व पूर्वजन्मसु 'विशुद्धसद्धर्मा' निदानादिरहितत्वेन शुद्धशोभनधर्मः, 'केवलाम्' अकलङ्कां 'बोधि' जिनप्रणीतधर्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येति यावत्॥१९॥ ततोऽपि किम् ? इत्याह चउरंगं दुल्लहं मच्चा, संजमं पडिवजिया। तवसाधुतकम्मंसे, सिद्धे भवति सासए॥२०॥त्ति बेमि॥ __ व्याख्या-'चतुरङ्गीम्' अभिहितस्वरूपां दुःप्रापां 'मत्वा' ज्ञात्वा 'संयम' सर्वसावद्यविरतिरूपं 'प्रतिपद्य' आसेव्य 'तपसा' बाह्येनाऽऽन्तरेण च 'धुतकर्मांशः' अपनीतसर्वकर्मभागः सिद्धो भवति 'शाश्वतः शश्वद्भवनात् । शश्वद्भवनं च पुनर्भवनिबन्धनकर्मबीजाऽऽत्यन्तिकोच्छेदात् । तथा चाह-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रार्थः ।। २० ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वत् ॥ ॥ इति उत्तराध्ययनटीकायां चतुरङ्गीयाख्यं तृतीयमध्ययनम् ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy