________________
तृतीयं चतुरङ्गीया|ऽध्ययनम्। | दुर्लभस्य चतुरङ्गस्य फलम् ।
श्रीउत्तरा- खेत्तं वत्थं हिरण्णं च, पसवो दासपोरसं । चत्तारि कामखंधाणि, तत्थ से उववजह ॥१७॥ ध्ययनसूत्रे मित्तवं नाइवं होइ, उच्चागोत्ते य वन्नवं । अप्पायंके महापन्ने, अभिजाए जसो बले ॥१८॥ श्रीनैमिच
व्याख्या-क्षेत्रं' ग्रामाऽऽरामादि सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छितोभयात्मकम् 'हिरण्यं सुवर्णम् , उपलन्द्रीयवृत्ति
Malक्षणत्वाद् रूप्यादि च, 'पशवः' गोमहिष्यादयः, दासाश्च-प्रेष्यरूपाः 'पोरुसं' ति प्राकृतत्वात् पौरुषेयं च-पदातिसमूहः ॥७७॥
दासपौरुषेयं, 'चत्वारः' चतुःसंख्याः । अत्र हि क्षेत्रवास्त्विति चैकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः । एते कामाः-मनोज्ञशब्दादयः तद्धेतवः स्कंधाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते । प्राकृतत्वाच्च नपुंसकनिर्देशः । 'तत्र' तेषु कुलेषु सः 'उपपद्यते' जायते । अनेन च एक अङ्गमुक्तम् । शेषाणि तु नवाङ्गान्याह-'मित्रवान्' वयस्यवान् , 'ज्ञातिमान्' बन्धुमान भवति, 'उच्चैर्गोत्रः' उत्तमकुलः, 'चः' समुच्चये, 'वर्णवान्' प्रशस्तशरीरच्छविः, 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, 'महाप्राज्ञः' पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, ततश्च विशिष्टविभूतिमान् , 'यशस्वी' ख्यातिमान् , 'बली' कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वात् मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥१७-१८॥ तत् किं एवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलम् ? इत्याह
भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं। पुत्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥१९॥ व्याख्या-'भुक्त्वा' आसेव्य 'मानुष्यकान्' मनुष्यसम्बन्धिनः 'भोगान् ' मनोज्ञशब्दादीन् 'अप्रतिरूपान्' अन
"सस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतूभयभेदात् त्रिविधम्, तत्र सेतुक्षेत्रम्-अरहट्टादिसेक्यम् , केतुक्षेत्र पुनः-आकाशपतितोदकनिष्पाद्यम् , उभयक्षेत्रं तु-उभयनिष्पाचम् । २ वास्तु-अगारं, तदपि त्रिविधम् , खातम्, उच्छ्रितम्, खातोछूितम् । तत्र खातम्भूमिगृहकादि, उच्छ्रितम्-प्रासादादि, खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः।
BXakoXOXOXOXOXOXOXOXOXOX6Y
॥७७॥