SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOXOXOX विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चवं ॥ १४ ॥ अप्पिया देवकामाणं, कामरूवविउविणो । उहूं कप्पे चिट्ठति, पुवा वाससया बहू ॥१५॥ व्याख्या-"विसालिसेहिं" ति मागधदेशीयभाषया विसदृशैः-विभिन्नैः 'शीलैः' व्रतपालनात्मकैः अनुष्ठानविशेषैः 'यक्षाः' देवा ऊर्द्ध कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । 'उत्तरोत्तराः' यथोत्तरप्रधानाः 'महाशुक्लाः' अतिशयोज्ज्वलतया चन्द्रादित्यादयः ते इव 'दीप्यमानाः' प्रकाशमानाः, 'मन्यमानाः' मनसि अवधारयन्तो विशिष्टकामावाप्तिसमुत्पन्नरतिसागरावगाढतया 'अपुनथ्यवं' अपुनश्यवनम् । अर्पिता इव 'अर्पिताः' ढौकिताः प्रक्रमात् प्राक् सुकृतेन 'देवकामानां' दिव्याङ्गनास्पर्शादीनाम् । 'कामरूपविकरणाः' यथेष्टरूपादिनिर्वर्जनशक्तिसमन्विताः 'ऊर्द्धम्' उपरि 'कल्पेषु' सौधर्मादिषु उपलक्षणत्वाद् ग्रैवेयकानुत्तरेषु च 'तिष्ठन्ति' आयुःस्थितिमनुभवन्ति । 'पूर्वाणि' वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि 'वर्षशतानि' प्रतीतानि 'बहूनि' असंख्येयानि, पूर्व-वर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यम् इति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ १४-१५ ॥ तत्किमेषाम् एतावदेव फलम् ? इत्याऽऽशयाऽऽह तत्थठिच्चा जहाठाणं, जक्खा आउक्खए चुया।उवेंति माणुसंजोणिं, से दसंगेऽभिजायइ ॥१६॥ व्याख्या-तत्र' तेषु कल्पेषु 'स्थित्वा' आसित्वा 'यथास्थानं' यद् यस्य स्वानुष्ठानानुरूपं इन्द्रादिपदं तस्मिन् यक्षाः 'आयःक्षये स्वजीवितावसाने 'च्युताः' भ्रष्टाः 'उपयान्ति' गच्छन्ति मानुषीं योनिम्। तत्र च 'से' इति सः-सावशेषकुशलकर्मा जन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणानि अस्येति दशाङ्गः अभिजायते । एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद् दशाङ्गः कश्चित् नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थ इति सूत्रार्थः ॥१६॥ कानि पुनर्दशाङ्गानि ? इत्याह
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy