________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीयवृत्तिः
॥ ७६ ॥
व्याख्या – 'शुद्धिः' कषायकालुष्यापगमो भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य । तथा च 'धर्मः' क्षान्त्यादिः शुद्धस्य 'तिष्ठति' अविचलिततयाऽऽस्ते, अशुद्धस्य तु कदाचित् कषायोदयादसौ विचलत्यपि । तदवस्थितौ च 'निर्वाणं' जीवन्मुक्तिं 'परमं' प्रकृष्टं 'याति' गच्छति । उक्तञ्च — "निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना- मिहैव मोक्षः सुविहितानाम् ॥ १ ॥” अत्यन्तप्रशमसुखानुभावात् । तथा हि“तणसंथारनिवन्नो, वि मुणिवरो भट्ठरायमयमोहो । जं पावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि ॥ २ ॥ " कथम्भूतः सन् ? 'घृतसिक्तः पावक इव' तपस्तेजोज्वलितत्वेन घृततर्पिताग्निसमान इति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदिश्य शिष्योपदेशमाह -
विगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डुं पक्कमई दिसं ॥ १३ ॥
व्याख्या – 'वेविग्धि' पृथक् कुरु 'कर्म्मणः ' प्रस्तावात् मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादिकम् । तथा यशोहेतुत्वात् 'यशः ' संयमो विनयो वा । यदुक्तम् — “एवं धम्मस्स विणओ, मूलं परमो से मोक्खो । जेण कित्तिं सुयं सिग्धं, निस्सेसं चाभिगच्छइ ॥ १ ॥” तत् 'सचिनु' उपचितं कुरु, कया ? - क्षान्त्या, उपलक्षणत्वात् मार्दवादिभिश्च । एवं कुर्वतः किं स्यात् ? इत्याह – 'पार्थिवं' परप्रसिद्ध्या पृथिवीविकारं 'शरीरं' तनुं 'हित्वा' मुक्त्वा ऊर्ध्वा दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षेण गच्छतीति सूत्रार्थः ॥ १३ ॥ इत्थं येषां तद्भव एव मुक्त्यवाप्तिः तान् प्रत्युक्तम् । येषां तु न तथा तान् प्रत्याह
१ “तृणसंस्तारनिपनोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत् प्राप्नोति मुक्तिसुखं, कुतस्तत् चक्रवपि ॥ २ ॥” २ "एवं धर्मस्य विनयो, मूलं परमोऽसौ मोक्षः । येन कीर्त्ति श्रुतं शीघ्रं निःश्रेयसं चाभिगच्छति ॥ १ ॥”
XXXCXOXOXOXOX
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
दुर्लभ
चतुरङ्गस्य फलम् ।
॥ ७६ ॥