________________
याच य एतान् वर्जयेहोषान , धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्रभुः ॥८॥ स च प्रथमसंहनन
एव, न चेदानीं तदस्ति । इत्यादिकया युक्त्या उच्यमानोऽप्यसो कम्मदोसेण चीवराइयं छडेत्ता गओ। तस्स उत्तरा भगिणी। | उज्जाणे ठियस्स वंदिया गया। तं च दट्ठण तीए वि चीवराइयं सवं छड्डियं । ताहे भिक्खाए पविट्ठा । गणियाए विट्ठा । 'मा
अम्ह लोगो विरजिहि' त्ति उरे से पोत्ती बद्धा । सा नेच्छइ । तेण भणियं-अच्छउ एसा तव देवयाए दिन्ना । तेण हाय दो सीसा पवाविया-कोडिन्नो कोट्टवीरो य । तओ सीसाण परंपरफासो जाओ। एवं केऽपि लब्धामपि बोधिं मिथ्यात्वोदयात् नाशयन्तीति सूत्रार्थः ॥ ९॥ एतत्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह
सुइंच लद्धं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो य णं पडिवज्जए ॥१०॥ व्याख्या-श्रुतिं चशब्दात् मानुषत्वं 'लब्ध्वा' प्राप्य श्रद्धां च 'वीर्य' प्रक्रमात् संयमविषयं पुनःशब्दस्य विशेषद्योतकत्वाद् विशेषेण दुर्लभं, यतो बहवः 'रोचमाना अपि' श्रद्दधाना अपि "नो य ण" ति सूत्रत्वात् नो एतं-धर्म 'प्रतिपद्यन्ते' चारित्रमोहनीयकम्र्मोदयतः सत्यकि-श्रेणिकादिवत् कत्तुं नाभ्युपगच्छन्तीति सूत्रार्थः ॥ १०॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
माणुसत्तम्मि आयाओ, जो धम्मं सुच्च सद्दहे । तवस्सी वीरियंलढुं, संवुडो णिचुणे रयं ॥११॥ | व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा श्रद्धत्ते, 'तपस्वी' निदानादिरहिततया प्रशस्यतपोऽन्वितः 'वीर्य' संयमोद्योगं लब्ध्वा 'संवृतः' स्थगिताश्रवः, स किम् ? इत्याह-निर्द्धनोति' नितरामपनयति रजः' बद्ध-बध्यमानकर्मरूपम् , तदपनयनाच्च मुक्तिमाप्नोतीति भाव इति सूत्रार्थः ॥ ११ ॥ इत्थमामुष्मिकं फलमुक्तम् । इदानीमैहिकं फलमाह
सोही उजुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निवाणं परमं जाइ, घयसित्ति व पावए ॥१२॥
संयमे वीर्यस्य दुर्लभत्वम् ।
Xoxoxoxoxoxoxoxoxoxoxoka