________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिच
न्द्रीयवृत्तिः
॥ ५२ ॥
मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । अद्भुतमीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ २ ॥' इत्यादिका च तस्या अध्यनुपलभ्यमानत्वादिति भावः । "अदुव" त्ति अथवा किं बहुना ? वचितोऽस्मि भोगानामिति गम्यते । 'इति' अमुना शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तश्च – “तपांसि यातनाश्चित्राः, संयमो भोगवचना" इत्यादि, 'इति' एतद् भिक्षुर्न चिन्तयेत् । यतः - आत्मा आत्मीयः स्वप्रत्यक्ष एव चैतन्यादितद्गुणानामनुभवात्, केवलिनां तु सर्वेऽप्यात्मानः प्रत्यक्षाः । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति महाविदेहेषु सन्त्येव सर्वदा । वञ्चनाकल्पनमप्ययुक्तम्, भोगानां दुःखात्मकत्वात् । उक्तञ्च – “आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता, विवेकिनवर्जिताः पापाः ॥ ३ ॥” तपोऽपि न यातना, दुःखनिबन्धनकर्मक्षयहेतुत्वाद् यथाशक्तिविधानाच । भणियं च - “सो हु तवो कायचो, जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥ ४ ॥” इति सूत्रार्थः ॥ ४४ ॥ तथा
अभू जिणा अत्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इति भिक्खू न चिंत ॥४५॥
व्याख्या—'अभूवन्' आसन् 'जिना: ' केवलिनः “अस्थि" त्ति निपातः, ततश्च विद्यन्ते जिना विदेहेषु, अथवा भविष्यन्ति जिना: 'मृषा' अलीकं 'ते' जिनास्तित्ववादिनः 'एवम्' अनन्तरोक्तन्यायेन 'आहुः' ब्रुवते इति मिक्षुर्न चिन्तयेत् । अनुमानादिप्रमाणसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥
उदाहरणम् — अस्थि वच्छाभूमीए अज्जासाढा नाम आयरिया बहुस्सुया बहुसीसपरिवारा य । तत्थ य गच्छे जो जो कालं करेइ तं तं निज्जाविंति ते भत्तपञ्चक्खाणाइणा । भणति य- देवत्तं पत्तो दंसणं देज्जासु ममं ति । न य केणइ दिन्नं । बहवे य निज्जामिया । अन्नया य एगो अईवबहुमओ अप्पणओ सीसो आयरतरएणमब्भत्थिओ
द्वितीयं परीषहाध्ययनम् ।
॥ ५२ ॥