________________
स्वयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी ये एवंविधैरभिवादनादिभिः सक्रियन्त इति । 'मुनिः' अनगार इति सूत्रार्थः ॥ ३८ ॥ किश्च___ अणुक्कसाई अप्पिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेजा, नाणुतप्पेज पन्नवं ॥ ३९॥
व्याख्या-'अणुकषायी' अल्पकषायी, कोऽर्थः?-सत्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाऽहंकारवान् भवति। यत उक्तम्-"पलिमंथ महं वियाणिया, जा वि य वंदण पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, इइ संखाय मुणी न मजइ ॥१॥" न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एव 'अल्पेच्छः' धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकांक्षी । यत उक्तम्-"सिंगारमेत्त संपय सयल, नवी न वेरी इत्थ तहिं । इय जाणिवि जिय! संतोसु करि, पावइ अप्पा सोक्ख जहिं ॥१॥" अत एव अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति पिण्डादि इति अज्ञातैषी, कुतः पुनरेवम् ? यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् । एवंविधोऽपि सरसाहारभोजिनो वीक्ष्य परान् कदाचिदन्यथा स्याद् अत आह-रसेषु' मधुरादिषु 'नाऽनुगृद्ध्येत्' नाऽभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्द्वद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात् । तथा 'नाऽनुतप्येत' तीर्थान्तरीयान् नृपत्यादिभिः सक्रियमाणानवेक्ष्य 'किमहमेषां मध्ये न प्रत्रजितः ? किं मया कतिपयजनपूज्या इतरजनस्यापि परिभवनीयाः श्वेतभिक्षवोऽङ्गीकृताः' इति न पश्चात्तापं विधत्ते 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारे प्रमोदं न्यकारे च विषादमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः॥ ३९॥
१ "विघ्नं महद् विजानीयाद्, याऽपि च वन्दना पूजनेह । सूक्ष्म शल्यं दुरुदरमिति संख्याय मानिने मामला २"शुभारमानं सम्पत् सकला, नाऽपि न वैरी अत्र तत्र । इति ज्ञात्वा जीव ! सन्तोपं कुरु, प्रामोति आत्मा सौख्यं यत्र ॥२॥"