SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ छिद्यन्ते कृपणास्तत्र, पतद्भिर्वातकम्पितैः॥४॥ इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनाः, तत् कियतीयम् ? भूयांश्च लाभः स्ववशस्य सम्यक् सहने । भणियं च-"असासए सरीरम्मि, विन्नाए जिणसासणे । कम्मे वेइजमाणम्मि, लाभो दुक्खऽहियासणं ॥५॥" एवमन्यैरपि सोढव्यस्तृणपरीषहः । तृणानि मलिनान्यपि कानिचित् स्युरिति तत्संपर्कात् |स्वेदेन जल्लसम्भव इति तत्परीषहमाह किलिन्नगातो मेहावी, पंकेण व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६॥ व्याख्या-'क्लिन्नगात्रः' व्याप्तदेहः 'मेहावी' “वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । बोकतो होइ आयारो, | जढो हवइ संजमो ॥१॥” इत्यागमवेदितया अस्नानरूपमर्यादावर्ती 'पकेन वा' स्वेदामलरूपेण 'रजसा वा' पांशुना ग्रीष्मे वाशब्दात् शरदि 'परितापेन' हेतुभूतेन, किमुक्तं भवति?–परितापात् खेदः, स्खेदाच पङ्करजसी, ततः क्लिन्नगात्रता भवति । 'सातं' सुखम् आश्रित्येति शेषः 'नो परिदेवयेत्' 'कथं कदा वा मे मलस्यास्यापगमो भविष्यति ?' इति न प्रलपेदिति सूत्रार्थः ॥ ३६॥ किं तहि कुर्यात् ? इत्याह वेइज्ज निजरापेही, आरियं धम्मऽणुत्तरं । जाव सरीरभेओ त्ति, जल्लं काएण धारए ॥ ३७॥ व्याख्या-वेदयेत' सहेत प्रक्रमात् जल्लजनितं दुःखं 'निर्जरापेक्षी' आत्यन्तिककर्मक्षयाभिलाषी 'आर्य धर्म' श्रुतचारित्ररूपम् 'अनुत्तरं' सर्वोत्तमं प्रपन्न इति गम्यते। सामोक्तमप्यर्थमादरख्यापनाय पुनराह-यावत्' इति मर्यादायाम् , 'शरीरभेदः' देहविनाशः तं मर्यादीकृत्य 'जल्लं' मलं कायेन धारयेत् । दृश्यन्ते हि केचिद् दवदग्धस्थाणुवद् विच्छायकृष्ण| "व्याधितो वाऽरोगी वा, स्नानं यस्तु प्रार्थयेत् । व्युत्क्रान्तो भवत्याचारः त्यक्तो भवति संयमः॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy