SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सर्ववैयावृ श्रीओघनियुक्तिः द्रोणीया वृत्तिः त्यकृतिः भा.४७-४९ भिक्षया व्याघात नि.८४-८५ ॥४७॥ ला किं पुनः-किमुत यतनाकरणे उद्यताः-उद्युक्तास्तेषां दान्तेन्द्रियाणां गुप्तानां मनोवाकायगुप्तिभिः संविनविहारिणः उद्यतविहारिणो मोक्षाभिलाषिण इत्यर्थः, तेषां सर्वप्रयत्नेन कार्यम् ? । किं पुनः कारणमेतावन्ति विशेषणानि क्रियन्ते !, एकस्यैव युज्यमानत्वात्तत्र, तथाहि-यद्येतावदुच्यते-यतनाकरणोद्यतानामिति, ततः कदाचिन्त्रिहवका अपि यतनाकरणोद्यताः स्युः?, अत आह-दान्तेन्द्रियाणां गुप्तानां चेति, तेऽपि च दान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं भवेयुरत उक्तं-संविग्नविहारिणो ये, तेषामवश्यं कर्त्तव्यमिति । उक्तं ग्लानद्वारम् , अथ सज्ञिद्वारं संबन्धयन्नाह एवं गेलनट्ठा वाघाओ अह इयाणि भिक्खट्ठा । वइयग्गामे संखडि सन्नी दाणे अ भद्दे अ॥४४॥ एवं ग्लानार्थ 'व्याघातो' गमनप्रतिबन्धस्तस्य स्यात् , 'अथे त्यानन्तर्ये, इदानी भिक्षार्थ गमनविघातो न कार्य इत्यध्याहारः, अथवाऽन्यथा-एवं तावद् ग्लानार्थ गमनव्याघात उक्तः, इदानी भिक्षार्थ यथाऽसौ स्यात्तथोपदय॑ते-'वइयग्गामे संखडि सन्नी दाणे य भद्दे'त्ति, ब्रज इति-गोकुलं तस्मिन् भिक्षार्थ प्रविष्टस्य गमनविघातः स्यात् , ग्रामः-प्रसिद्धः संखडीप्रकरणं सज्ञी-श्रावकः 'दाणे'त्ति दानश्राद्धकः 'भद्दे अत्ति भद्रकः साधूनां, चशब्दान्महानिनादकुलानि । एतेषु प्रतिबध्यमानस्य यथा गमनविघातस्तथाऽऽह उच्चत्तणमप्पत्तं च पडिच्छे खीरगहण पहगमणे । वोसिरणे छकाया धरणे मरणं दवविरोहो ॥८॥ स हि अनुकूलं पन्थानमुत्सृज्य उद्वर्त्तते-यतो ब्रजस्ततो याति, व्रजे च प्राप्तः सन् अप्राप्तां वेलां 'प्रतीक्षते' प्रतिपालयति, ततश्च 'खीरगहण'त्ति तत्र क्षीरग्रहणं करोति, क्षीराभ्यवहारमित्यर्थः, 'पहगमणत्ति पीते क्षीरे पथि गमनं करोति ।। CRORESAALMALAAMS ॥४७॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy