SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पुनश्च तेनास्य भेदः कृतः, ततश्च 'वोसिरणं ति मुहर्मुहः पुरीषोत्सर्ग विदधाति, तत्र च षट्कायविराधना, तद्वेगधरणे च मरणं, 'दवविरोहो'त्ति द्रवेण-काञ्जिकेन सह विरोधो भवति, साधोः प्रायस्तत्संव्यवहारात्, यद्वा 'दवविरोहोत्ति द्रवम्| उदकं तेन निर्लेपनं करोति सागारिकपुरतः, अथ न करोत्यडाहा-प्रवचनहीला भवति, अथवा द्रवविरोधो विनाशो, यतस्तृषितः संस्तदेव पिबति । एवं बजे गच्छत आत्मविराधना प्रवचनोपघातश्च स्यात्, गमनविघातश्च नितरां स्यात् । उक्तं व्रजद्वारम् , अथ ग्रामद्वारम् खद्धादाणिअगामे संखडि आइन्न खड गेलन्ने । सपणी दाणे भद्दे अप्पत्तमहानिनादेसु॥८६॥ ___ खद्धादानिकग्रामः-समृद्धग्रामस्तस्मिन्नुद्वर्त्तनं करोति, अप्राप्तां वेलां च प्रतिपालयति, क्षीरग्रहणं करोति, तत्र च त एव दोषाः “वोसिरणे छक्काया धरणे मरणं दवविरोहो” । उक्तं ग्रामद्वारम् , अथ संखडिद्वारं, तत्राह-संखडि आइन्नगेलण्णं ति संखडी प्रकरणं तदर्थमुद्वर्त्तते, अप्राप्तां च वेलां प्रतिपालयति, तत्र च 'आइण्ण'त्ति आकीर्ण-संबाधनं स्त्रीस्पर्शादिदोषाः, तथा 'खद्धगेलण'त्ति खद्धं-प्रभूतमुच्यते, ततश्च भूरिभक्षणे मान्द्यं स्यात् , त एव च दोषाः “वोसिरणे छक्काया धरणे मरणं है दवविरोहो” । उक्त संखडिद्वारम् , अथ सज्ञिद्वारम्-'सन्नित्ति सज्ञिनं श्रुत्वा उद्वर्त्तनं करोति, अप्राप्तां च वेलां प्रतिपालयति, तत्र च त एव दोषा वोसिरणादयः । उक्तं सज्ञिद्वारम् , इदानीं दानश्रावकद्वारं, तत्रापि "उवत्तणमप्पत्तं च |पडिच्छे"नि पूर्ववत्, ततश्चासौ दानश्रावकः प्रभूतं घृतं ददाति, तत्रापि त एव दोषा वोसिरणादयः । उक्तं दानद्वारम् , अथ भद्रकद्वार-भद्दग'त्ति कश्चित्स्वभावत एव साधुभद्रकः स्यात् तत्समीपगमनार्थमुद्वर्त्तनं करोति, अप्राप्तां च वेलां OSASUSASSAR
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy