SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पृच्छायां शङ्का स्यात्, नूनमयं तदर्थी चरितुकामश्च । अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे वर्गचतुष्टयभावे च तत्प्रभवगुणहानिः स्यात्, तस्माद्विधिना पृच्छेत् । तत्प्रतिपादनायाह गादुवार भासे अगडसमीवे महाणमज्झे वा । पुच्छेज सयं पक्खा विआलणे तस्स परिकहणा ॥ ६६ ॥ ग्रामद्वारे - ग्रामस्य निष्काशप्रवेशे स्थित्वा पृच्छेत्, अथवा 'अब्भासे'त्ति ग्रामाभ्यर्णे कूपसमीपे वा महाजनस्य समुदाये वा, कं ? - स्वकं पक्षं, किमत्रास्मत्पक्षोऽस्ति नेति ?, यदि परोऽजानन् पृच्छति को भवतां स्वपक्षः ? इत्येवंविचारणे ततस्त| स्याने साधोः परिकथना स्यात्, पञ्चविधोऽस्मत्पक्षः - चैत्यगृहादि । उक्तं पृच्छाद्वारम् । ततः पृच्छासमनन्तरं यदि चैत्यगृहमस्ति ततस्तस्मिन्नेव गन्तव्यं, तत्र च कथं गन्तव्यम् ?, उच्यते निस्संकिअ थूभाइसु कालं गच्छेज चेइअघरं तु । पच्छा साहुसमीवं तेऽवि अ संभोइया तस्स ॥ ६७ ॥ पु कंठं । अथ साहम्मिअद्वारमाह- 'पच्छा साहुसमीवंति चैत्यगृहान्निर्गत्य पश्चात्साधुसमीपं याति, 'तेऽपि' साधवः साम्भोगिकाः 'तस्य' साधोः, चशब्दादन्यसाम्भोगिका वा । तत्र यदि साम्भोगिकास्ततः का सामाचारी ?, इत्याहनिक्खिविडं किइकम्मं दीवणऽणाबाह पुच्छण सहाओ । गेलपण विसज्जणया अविसजुवएस दावणया ॥ ६८ ॥ 'निक्षिप्य' विमुच्य साधुहस्ते, किम् ?, उपकरणं - पात्रकादि, ततः 'कृतिकर्म' वन्दनं करोति, ततश्च 'दीवणं' ति आगमनकार्याविर्भावनं करोति 'अणावाहि'त्ति, अनावाधा यूयम् ?, एवं पृष्टे सति तेऽप्याहुः - अनाबाधा वयमिति । 'पुच्छण'त्ति ततः साधुरेवमाह - भवद्दर्शनार्थमहं प्रविष्टो ग्राममिदानीं व्रजामीत्येवं पृच्छति, ततस्तेऽपि साधवो यद्यस्ति सहायस्तं दत्त्वा
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy