________________
श्रीओघ
नियुक्तिः
द्रोणीया
वृत्तिः
यथा ततो निर्गत्यैतेऽधुनाऽमुकत्र तिष्ठन्तीति, एतदुक्तं भवति-मासकल्पपरिसमाप्तौ ते कदाचित्तत्रैवायाताः स्युः, ततश्चैतेषां ग्रामप्रवेशः साधूनां पश्यत्ता-संदर्शनं भवतीति तत्रैव कार्यपरिसमाप्तिः स्यात् , तथा कदाचित्तत्र संखडी भवति, ततश्च भक्तं गृहीत्वा नि.६२-६३ व्रजतः कालक्षेपो (न) भवति, शीघ्रं चाभीष्टं ग्रामं प्राप्नोति, तत्र वा प्रविष्टस्य श्राद्धः-श्रावकः कश्चिद्भवति, तद्गहात्पर्युषितभक्त
पृच्छा मादाय ब्रजति । एते प्रविष्टस्यैहिका गुणाः, अथेतरे 'परलोइआ' इति द्वारपरामर्शः, 'गिलाण'त्ति कदाचित्तत्र प्रविष्ट इदं
नि.६४-६५ शृणुयात् यदुतात्र ग्लान आस्ते, ततश्च परिपालनं कार्य, परिपालने च कथंन पारलौकिका गुणा इति, 'जो गिलाणं पडियरइ से में पडिअरति, जो मं पडिअरइ सो गिलाणं पडियरतित्ति वचनप्रामाण्यात् , कदाचिद्वा तत्र चैत्यायतनं भवेत् तद्वन्दने पुण्यावाप्तिः स्यात् , वादी वा तत्पराजयश्च, प्रत्यनीको वा साध्वादेस्तत्र स्यात् तदर्शनाच्चासावुपशमं यायात्, एवंलब्धिसं-131 पन्नत्वात् । उक्तमैहिकपारलौकिकगुणद्वारम् , अथ पृच्छाद्वारं, तत्र विधिपृच्छा अविधिपृच्छा च, अविधिपृच्छाद्वारमाहअविही पुच्छाअत्थित्थ संजया नत्थि.तत्थ समणीओ।समणीसुअता नत्थी संकाय किसोरवडवाए ॥१४॥ ___ अविधिपृच्छेयं, यदुतास्त्यत्र संयताः, ततोऽसौ पृच्छय एतां विशेषविषयां पृच्छां श्रुत्वाऽऽह-नास्त्यत्र संयताः, तत्र | |च श्रमण्यो विद्यन्ते तेन च ता न कथिताः, विशेषप्रश्नाकरणात्, 'समणीसु यत्ति अथ श्रमणीः पृच्छति ततोऽसावाह-न सन्त्यत्र ताः, तत्र च श्रमणाः सन्तीति प्राग्वत् । शङ्का च श्रमणीपृच्छायां स्यात्, 'किशोरवडवान्यायात् ॥
सडेसु चरिअकामो संका चारी य होइ सड्डीसुं। चेइयघरं व नथिह तम्हा उ विहीइ पुच्छेजा ॥ ३५॥ अथ श्रावकान् पृच्छति ततः परो विकल्पयति-चरितुकामोऽयं-भक्षयितुकामः, अथ 'सड्डीसुत्ति श्राविकाविषयायां
ROSASSASSIS
॥ ३९॥