SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥४०॥ प्रेषयन्ति, अथ तत्र कश्चिद् ग्लानस्तत एवं ब्रवीति-अहमेनं ग्लानं परिचरामीति, ततस्तेऽप्याहुः-विद्यन्त एव परिचारकाः, पृच्छा एवमभिधाय 'विसजणन्ति तं साधु 'विसर्जयन्ति' प्रेषयन्ति वयमेव भलिष्याम इति । अथ न विसर्जयन्ति, एतच्च अवते-पह नि.६६ प्रवेश सर्वमत्र ग्लानप्रायोग्यमौषधादि लभ्यते, किन्तु तत्संयोजनां न जानीमः, ततः स उपदेशं ददाति-इदमौषधमनेन संयोज्य है नि. ६७ देयमिति, अथ त एवं ब्रुवते-औषधान्येवात्र वयं न लभामहे ततः स साधुर्दापयत्यौषधानि, याचयति वा पाठान्तरं, एव ग्लानवैयामसावौषधानि दापयित्वा ब्रजति, अथ त एवमाहुः-औषधसंयोजनां न जानीमो न च लभामहे, तत एष साधुरौषधानि वृत्त्यं याचित्वा संयोज्य ग्लानाय दत्त्वा मनाक् प्रशान्ते व्याधौ सति व्रजति । अथ त एवमाहुर्गच्छन्तं साधुम् नि.६८-७० पुणरवि अयं खुभिज्जा अयाणगा मोस वा भणिज्ज संचिक्खे।उभओऽवि अयाणंता वेजं पुच्छंति जयणाए॥१९॥ पुनरप्ययं व्याधिः क्षोभ यायात्-प्रकुप्येत् , वयं च न जानीम उपशमयितुं, स च ग्लान एवं ब्रूयात्-त्वया तिष्ठता अहमचिरात्प्रगुणीभवामि, ततः 'संचिक्खे'त्ति सतिष्ठति । अथोभावपि तावागन्तुकवास्तव्यो न जानीतः क्रियां कर्तुं, तत उभावपि अजानन्तौ वैद्यं पृच्छतः, कथं ?-'यतनया' अनन्तरगाथावक्ष्यमाणयेति । सा चैवम् गमणे पमाण उवगरण सउण वावार ठाण उवएसो। आणण गंधुदगाई उट्ठमणुढे अ जे दोसा ॥७॥ यदि ग्लानो गन्तुं पारयति तत उत्सर्गेण स एव नीयते, अथ न पारयति ततोऽन्ये साधवो वैद्यसकाशे गमनं कुर्वन्ति, G ॥४०॥ 'पमाणे'त्ति कियत्प्रमाणैर्गन्तव्यं ?, तत्रैकेन न गन्तव्यं यमदण्डपरिकल्पनात्, न द्वौ यमपुरुषपरिकल्पनात्, न चत्वारो ६ वाहीकपरिकल्पनात्, अतस्त्रिपञ्चसप्तभिर्गन्तव्यं, उक्तं प्रमाणं, 'उवगरणे'त्ति शुक्लवासोभिर्यातव्यं, न कृष्णमलिनादिभिर्या NACSCGANGA.COM
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy