________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥ ३७॥
'अयतानाम् अयत्नपराणां पुरुषाणां, त एव ईर्यापथाद्या व्यापारा 'यतानां यत्नवतां 'निर्वाणगमनाय' मोक्षगमनाय भवन्ति॥ भवमोक्षएवं तावत्साधोहस्थेन सह तुल्येऽपिव्यापारे विसदृशतोक्ता, इदानीं सजातीयमेव साधुमाश्रित्य विसदृशतामादर्शयन्नाह- | हेतुसाम्यं एगतेण निसेहो जोगेसु न देसिओ विही वावि । दलिअं पप्प निसेहो होज विही वा जहा रोगे ॥५५॥
नि.५३
५४-५५ | एकान्तेन निषेधः 'योगेषु' गमनादिव्यापारेषु 'न देशितः'नोपदिष्टः 'विधिर्वा' अनुज्ञा वा क्वचित्स्वाध्यायादौ न दर्शिता, किन्तु 'दलिद्रव्यं वस्तु वा प्राप्य' विज्ञाय निषेधो भवेत् , तस्यैव वा विधिर्भवेत् अनुष्ठानं भवेदिति । अयमत्र भावः-कस्यचित्साधोराचार्यादिप्रयोजनादिना सचित्तेऽपि पथि व्रजतो गमनमनुज्ञायते, कारणिकत्वात् ,नाकारणिकस्य, दृष्टान्तमाह-13 'जहा रोगे'त्ति यथा 'रोगे' ज्वरादौ परिपाचनभोजनादेः प्रतिषेधः क्रियते, जीर्णज्वरे तु तस्यैव विधिरित्यतः साधूच्यते-16 वस्त्वन्तरमाश्रित्य विधिः प्रतिषेधो वा विधीयते । अथवाऽन्यथा व्याख्यायते-इहोक्तं-'अखिलाः पदार्था आत्मनः संसारहेतवो मोक्षहेतवश्च' ततश्च न केवलं त एव यान्यपि सम्यग्दर्शनज्ञानचारित्राणि तान्यपि संसारमोक्षयोः कारणानीति, तथा चाह-'एगंतेण निसेहो०' एकान्तेन निषेधः सम्यग्दर्शनादिदानेषु तत्पख्यापकशास्त्रोपदेशेषु न दर्शितो विधिर्वा न दर्शित इति संटङ्कः, किन्तु 'दलिकं प्राप्य' पात्रविशेष प्राप्य कदाचिद्दीयते कदाचिन्न, एतदुक्तं भवति-प्रशमादिगुणान्वि-18 ताय दीयमानानि मोक्षाय, विपर्यये भवाय, तदाशातनात् , यथा ज्वरादी तरुणे सत्यपथ्यं पश्चानु पथ्यमपि तदेव ॥ अथैकमेव वस्त्वासेव्यमानं बन्धाय मोक्षाय च कथं भवति ?, तदाह
जंमि निसेविजंते अइआरो होज्ज कस्सइ कयाइ । तेणेव य तस्स पुणो कयाइ सोही हवेजाहि ॥५६॥
७
॥