________________
'यस्मिन् ' वस्तुनि क्रोधादौ निषेव्यमाणे 'अतिचारः' स्खलना भवति 'कस्यचित्' साधोः 'कदाचित् कस्याश्चिदवस्थायां 'तेनैव' क्रोधादिना तस्यैव पुनः कदाचिच्छुद्धिरपि भवेत्, चण्डरुद्रसाधोरिव तेन हि रुषा स्वशिष्यो दण्डकेन ताडितः, तं च रुधिरार्द्र दृष्ट्वा पश्चात्तापवान् संवृत्तः चिन्तयति च - धिग्मां यस्यैवंविधः क्रोधः इति विशुद्धपरिणामस्यापूर्वी करणं क्षपकश्रेणिः केवलोदयः संवृत्त इति ॥ बाह्यं व्यापारमङ्गीकृत्य विसदृशतोक्ता, अथ बाह्योऽपि व्यापारो यथा बन्धहेतुर्न
स्यात्तथाऽऽह
अणुमित्तोऽविन कस्सई बंधो परवत्थुपचओ भणिओ । तहवि अ जयंति जइणो परिणामविसोहिमिच्छंता ॥ ५७ ॥
'अणुमात्रोsपि ' स्वल्पोऽपि बन्धो न कस्यचित् 'परवस्तुप्रत्ययाद्' बाह्यवस्तुनिमित्तात्सकाशाद् 'भणितः ' उक्तः, किन्त्वा - स्मपरिणामादेवेत्यभिप्रायः । आह-यद्येवं न तर्हि पृथिव्यादियतना कार्या, उच्यते, यद्यपि बाह्यवस्तुनिमित्तो बन्धो न भवति तथाऽपि यत्नं विदधति पृथिव्यादौ मुनयः परिणामविशुद्धिं 'इच्छन्तः' अभिलषन्तः, एतदुक्तं भवति - यदि पृथिव्यादिकाययतना न विधीयते ततो नैवेयं स्यात्, यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्धः, इत्याह
जो पुण हिंसाणे वहई तस्स नणु परीणामो । दुट्ठो न य तं लिंगं होइ विसुद्धस्स जोगस्स ॥ ५८ ॥ यस्तु पुनः 'हिंसायतनेषु' व्यापत्तिधामसु वर्त्तते तस्य ननु परिणामो दुष्ट एव भवति, न च तद्धिंसास्थानवर्त्तित्वं 'लिङ्गं' चिह्नं भवति 'विशुद्धयोगस्य' मनोवाक्कायरूपस्य ॥
तम्हा सया विसुद्ध परिणामं इच्छया सुविहिएणं । हिंसाययणा सङ्घे परिहरियवा पयन्तेणं ॥ ५९ ॥