SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ एवमेव ' निर्जरा' फलविशेषा अपि परिणामवशाद् 'बहुविधा' बहुप्रकारा विशिष्टविशिष्टतरविशिष्टतमाः । एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम्, अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराह— जे जत्तिआ अ हेऊ भवस्स ते चैव तत्तिआ मुक्खे | गणणाईया लोगा दुण्हवि पुण्णा भवे तुल्ला ॥ ५३ ॥ ये हैतवो यावन्तो- यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो - निमित्तानि । कियन्मात्रास्ते अत आह— गणनाया अतीताः - सङ्ख्याया अतिक्रान्ताः, के?, लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतुनामसङ्ख्येया लोकाः 'पूर्णाः ' भृताः, ते तु पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथंभूताः ? - क्रियाविशेषणं 'तुल्याः' सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात्केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते, भण्णति पडिवयणं - तुल्लग्गहणेण संवलिआणं संसारमोक्खहेऊणं लोका तुलत्ति कस्सति बुद्धी होज्जा तेण पुण्णग्गहणंपि कीरइ, दोण्हवि पुण्णत्ति जया जया भरिअत्ति नेयवा, इयमत्र भावना - सर्व एव ये त्रैलोक्योदरविवरवर्त्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति एवं तावत्प्रमाणमिदमुक्तम्, इदानीं येषाममी | त्रैलोक्यापन्नाः पदार्था बन्धहेतवो भवन्ति न भवन्ति च येषां तदाह इरिवहमाईआ जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव उ जयाण निघाणगमणाय ॥ ५४ ॥ 'ईर गतिप्रेरणयोः' ईरणमीर्या पथि ईर्ष्या ईर्यापथं - गमनागमनमित्यर्थः, ईर्यापथमादौ येषां ते इयपथाद्याः, आदिशब्दादृष्टिवागादिव्यापारा गृह्यन्ते, ईर्यापथाद्या व्यापारा य एव भवन्ति 'कम्मबंधाय' कर्मबन्धनिमित्तं - कर्मबन्धहेतवः, केषाम् ? -
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy