________________
AGRAAAAAAE
सबत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥ ४६॥ 1 'सर्वत्र' सर्वेषु वस्तुषु, किम् ?-संयमरक्षा कार्या, तदभावेऽभिप्रेतार्थसिद्ध्यसिद्धेः, किमेष न्यायः १, नेत्याह-संयमादप्या|त्मानमेव रक्षेत् , आत्माभावेन तत्प्रवृत्त्यसिद्धेः, आत्मानमेव रक्षन् , जीवन्नित्यर्थः, 'मुच्यते भ्रश्यते तस्मादतिपातात्-हिंसादि
दोपात्, किं कारणम् ?, उच्यते, अतिपातनात् यतः पुनर्विशुद्धिस्तपआदिना भविष्यति, अथ मन्यसे-पृथिव्याद्यतिपातोउत्तरकालं विशुद्धिर्भवति नाम, किन्तु हिंसायां वर्तमानः सः अविरतो लभ्यत इति 'एकव्रतभङ्गे सर्वव्रतभङ्ग' इति वचतैनात्, तदेतन्नास्ति, यत आह-'न याविरई', किं कारणं ?,-तस्याशयशुद्धतया, विशुद्धपरिणामस्य च मोक्षहेतुत्वात् । यद्वा |
सर्वत्र संयम रक्षन्नतिपातान्मुच्यते-अतिपातो न भवति, किमयमेव न्यायः १, नेत्याह-संयमादात्मानमेव रक्षन् , येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः?, उच्यते, यतः___ संजमहेउं देहो धारिजइ सो कओ उ तदभावे ? । संजमफाइनिमित्तं देहपरिपालणा इट्टा ॥४७॥
इह हि 'संयमहेतुः' संयमनिमित्तं देहो धार्यते, सच-संयमः कुतः 'तदभावे देहाआवे?। यस्मादेतदेवं तस्मात् 'संयमस्फातिनिमित्तं, संयमवृद्ध्यर्थ देहपरिपालनमिष्टं-धर्मकायसंरक्षणमभ्युपगम्यते ॥ आह-लोकेनाविशिष्टमेतत्, तथाहिचिक्खल्लवालसावयसरेणुकंटयतणे बहुजले अ। लोगोऽवि नेच्छइ पहे को णु विसेसो भयंतस्स ? ॥४८॥
चिक्खल्लव्यालस्वापदसरेणुकण्टकतृणान् बहुजलांश्च सोपद्रवान् मार्गान-पथः लोकोऽपि नेच्छत्येव, अतः को नु विशेषो? |लोकात्सकाशाद्भदन्तस्य येनैवमुच्यत इति ?, उच्यते