SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीओघनिर्युक्तिः द्रोणीया ॥ ३५ ॥ वाडविणा एवं सेसावि सङ्घसंजोगा । नच्चा विराहणदुगं वज्र्जतो जयसु उवत्तो ॥ ४५ ॥ पृथिव्युदकयोः युगपद्गमनतया प्राप्तयोः सतोः कतरेण यातव्यमित्याह - पृथिव्या, उदके त्रसादिसद्भावात्, चशब्दा| द्वनस्पतिश्च पृथिवीं त्यक्त्वैव । अथ पृथिवीवनस्पतिकाययोः सतोः किं कर्त्तव्यमित्याह - पृथिव्यैव गन्तव्यं, वनस्पतौ तद्दोषसंभवात् ॥ पृथिवीत्रसयोः केन गन्तव्यं ? - त्रसरहितमार्गेण, एतदुक्तं भवति - विरलत्रसेषु तन्मध्येन, निरन्तरेषु तु पृथिव्या, | अष्कायवनस्पतिकाययोः सतोः केन यातव्यमित्याह-वनेन वनस्पतिकायेन, उदके नियमाद्वनस्पतिसद्भावात् ॥ तेजस्कायवायुकायाभ्यां रहिता एवं शेषा अपि सर्वसंयोगाः अन्येऽपि ये नोक्तास्तेऽनुगन्तव्याः भङ्गकाः, सर्वथा विराधनाद्वयं ज्ञात्वा - आत्मविराधना संयमविराधना च एतद्वयमपि वर्जयन् उपयुक्तो यतस्व - यतनां कुर्विति । इदानीं यदुक्तं - ' एवं सेसावि सबसंजोगा' इति ते भङ्गका दर्श्यन्ते, ते चामी - तत्थ पुढविकाओ आउकाओ वणस्सइकाओ तसकाओ चेति चत्वारि पदानि कार्ड ततो दुगचारणियाए तिगचारणिआए चउक्कचारणियाए चारेयबा, सा य इमा चारणिआ - पुढविक्काओ आऊय पढमो १, पुढवी वणस्सतीबीओ य २, पुढवी तसा य तइओ य ३, एवं पुढवीए तिन्नि लद्धा, आऊ दो लहइ, वणस्सई एकंति ६, पुढवी आऊ वणस्सई १, पुढवी आऊ तसा २, पुढवी वणस्सइ तसा ३, आऊवणस्सइतसा ४, एए तिगचारणियाए लद्धा, चउक्कचारणियाए उ एक्को चेव, सबेवि एक्कारस अचित्तेहिं पएहिं लद्धा, एवं मीसेसुवि ११ सचिव ११, सवेऽवि तेत्तीस ३३ । उक्ता षट्काययतना, आह-यदा पुनर्व्याघ्रदुस्त टीन्यायेनान्यतरविराधनामन्तरेण प्रवृत्तिरेव न घटां प्राश्चति तदा किं कर्त्तव्यमित्याह विहारे त्रस यतना संयुक्तकाययतना नि. ४२-४३ ४४-४५ ॥ ३५ ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy