________________
SABASEASGAOSAROKAR
कान्तसप्रत्यपायअनाक्रान्तनिष्पत्यपायअनाक्रान्तसप्रत्यपायरूपाः । स्थापना- ननु च कस्मादचित्तवनस्पतियतनोच्यते , तथाहि-सचेतनविषया यतनेति न्यायः, उच्यते, तत्राप्यस्ति कारणं, 15 | यद्यपि अचित्तस्तथाऽपि कदाचित्के-13/ पाश्चिद्वनस्पतीनामविनष्टा योनिः स्याद् गुडूचीमुद्गादीनां, तथाहि-गुडूची |s शुष्काऽपि सती जलसेकात्तादात्म्य |भजन्ती दृश्यते, एवं कङ्कटुकमुद्गादिरपि, अतो योनिरक्षणार्थमचेतनयतनाऽपि [ss न्यायवत्येवेति । अथवाऽचित्तवनस्पतियतनया दयालुतामाह, अचेतनस्यैते भेदा न भवन्ति, किन्तु सचित्तमिश्रयोरेव योजनीयाः। उक्तं वनस्पतिद्वारम् , अधुना त्रसद्वारमाहतिविहा बेइंदिया खलु थिरसंघयणेयरा पुणो दुविहा । अकंताई य गमो जाव उ पंचिंदिआ नेआ ॥४२॥ | 'त्रिविधाः' त्रिप्रकारा द्वीन्द्रियाः-सचित्तादिभेदात्, सचित्ताः सकलजीवप्रदेशवन्तः, अचित्तास्तु विपर्ययात्, मिश्रा
स्त्वेत एव करम्बीभूताः, पुनरेकैको द्विविधः, तथाहि-सचित्तो थिरसंघयणो अथिरसंघयणो अ, एवं अचित्तो मिस्सोवि, जो |सो स्थिरसंघयणो तत्थ चउभंगी-अकंतोऽणकंतो सपच्चवाओ इयरो य, एवं अण्णेऽवि 'अकंतादीय'त्ति आक्रान्तादिर्ग-IN 8|मको-भङ्ग इति, अनेन चतुर्भङ्गिका सूचिता । एवमयं क्रमस्त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां सचित्ताचित्तमिश्रादिर्योज-13|| नीय इति ॥ एवं तावत्सजातीययतनोक्ता, इदानीं विजातीयेन सहाह
पुढविदएय पुढविए उदए पुढवितस वालकंटा य । पुढविवणस्सइकाए ते चेव उ पुढविए कमणं ॥४३॥ पुढवितसे तसरहिएं निरंतरतसेसु पुढविए चेव । आंउवणस्सइकाए वणेण नियमा वणं उदए ॥४४॥