________________
यदा हि तस्य साधोर्गच्छतो वनदवोऽनुकूलो भवति, यदभिमुखं साधुव्रजति तदभिमुखमग्निरप्येतीत्यर्थः, ततस्तस्मिन् वनदवे व्यतिक्रान्ते सति गन्तव्यं, यदा तु प्रतिलोमः-अभिमुखमायाति ततः 'अद्देसुत्ति आर्तेषु प्रदेशेषु तिष्ठति येनासौ नाभिभवति, तृणरहिते वा, 'असति' 'अभावे तस्य 'कत्तिणंतगउल्लणं ति, कृत्तिः-चर्म तेनात्मानमावृत्य तिष्ठति, तदभावे 'पंतगउल्लणं' अणंतर्ग-कम्बलादिवस्त्रं तदाीकृत्य पानकेन तेनात्मानमावृणोति, ततस्तिष्ठति, अथ गच्छतो बहुगुणं ततः तडिगादिडेवणय'त्ति उपानही परिधाय डेंवनं-लङ्घनमग्नेः कृत्वा व्रजति । तत्र यदा विध्याते तेजस्काये याति तदाऽचित्ततेजस्काययतना, यदा तूपानही परिधाय व्रजति तदा सचित्तो मिश्रो वा तेजस्कायः, एषा त्रिप्रकारा यतना । उक्तं तेजस्कायद्वारम् , अथ वायुद्वारं
जह अंतरिक्खमुदए नवरि निअंबे अ वणनिगुंजे य । ठाणं सभए पाउण घणकप्पमलंबमाणं तु ॥४॥
यथा अन्तरिक्षोदके यतनोक्ता 'आसण्णाउ नियत्तति 'इत्यादिलक्षणा सैवेहापि दृश्या, 'नवर'न्ति केवलमयं विशेषः, 'नितम्बे' पर्वतैकदेशे वननिकुञ्जे वा स्थातव्यम् , यद्यसौ प्रदेशः सभयस्ततः 'पाउण घणकप्पं' धनं-निश्छिद्रं कल्पं-कम्बल्यादिरूपं प्रावृत्त्य गच्छति 'अलम्बमाणं तु'त्ति यथा कोणो न प्रलम्बते, प्रलम्बमानैर्वायुविराधनात् । तत्र महावायौ गच्छतः कल्पप्रावृतशरीरस्य सचित्तयतना भवति, अप्रलम्ब कल्पं कुर्वतः अचेतनयतना, मिश्रयतना कल्पप्रावृतस्यैव भवति, यतः किंचि ढक्किअं किंचिच्च न, इयं त्रिविधा यतना ॥ उक्तं वायुद्वारम् , अथ वनस्पतिद्वारमुच्यते
तिविहो वणस्सई खलु परित्तऽणतो थिराथिरेकेको । संजोगा जह हेट्ठा अकंताई तहेव इहिं ॥ ४१ ॥
BAASAASAASAASAASAASAASAASAASAX
कोणो न
अचेतनयतपतिद्वारमुच्या इहिं ॥ ४९