________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
OSSUNGARAN
उडुबद्धे रयहरणं वासावासासु पायलेहणिआ।
गमनपवडउंबरे पिलंखू तस्स अलंभंमि चिंचिणिआ ॥२६॥
सन्थाः पाद'ऋतुबद्धे' शीतोष्णकाले 'रयहरणं ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । तथा 'वासावासासु पायलेहणिआ' वर्षासु-18 लेखनिका यावर्षा वर्षाकाले वर्षति सति पादलेखनिकया प्रमार्जनं कर्त्तव्यं, सा च किंमयी भवत्यत उच्यते-'वडे' त्यादि, वटमयी नि.२५-२८ उदुम्बरमयी प्लक्षमयी, 'तस्यालाभे' प्लक्षस्याप्राप्तौ चिञ्चणिकामयी अम्बिलिकामयीति । सा च कियत्प्रमाणा भवतीत्याहबारसअंगुलदीहा अंगुलमेगं तु होइ विच्छिन्ना। घणमसिणनिवणावि अ पुरिसे पुरिसे य पत्तेअं॥२७॥ .
द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहो भवति, विस्तारस्त्वेकमङ्गलं स्यात् । सा च 'घना' निबिडा कार्या, मसृणा निव्रणा च भवति । सा च किमेकैव भवति ?, नेत्याह-पुरुषे पुरुषे च प्रत्येकम्-एकैकस्य पृथगसौ भवति ।
उभओ नहसंठाणा सचित्ताचित्तकारणा मसिणा । _ 'उभयोः' पार्श्वयोः 'नखसंस्थाना नखवत्तीक्ष्णा, किमर्थमसौ उभयपार्श्वयोस्तीक्ष्णा क्रियते ?, सचित्ताचित्तकारणात् , तस्या एकेन पार्श्वेन सचित्तपृथिवीकायः सल्लिख्यते, अन्येन पार्श्वनाचित्तपृथिवीकाय इति । किंविशिष्टा सा-'मसिणत्ति, मसृणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधना न भवति । पृथिवीकाययतनाद्वारं गतम् । अप्कायद्वारमाह
आउकाओ दुविहो भोमो तह अंतलिक्खो य ॥२८॥ अप्कायो द्विविधः-भौमोऽन्तरिक्षश्च । इदानीं प्रत्यासत्तिन्यायादन्तरिक्षस्तावदुच्यते- .