________________
महिआवासं तह अंतरिक्खिअं दहुतं न निग्गच्छे। आसन्नाओं नियत्तः दूरगओं घरं च रुक्खं वा ॥ २९ ॥
सोऽन्तरिक्ष द्विविधः, महिका - धूमिकारूपोऽप्कायः, 'वासं'ति वर्षारूपञ्चाप्कायः, तमेवंप्रकारमुभयमपि दृष्ट्वाऽन्तरिक्षजं न निर्गच्छेत्, अथ कथञ्चिन्निर्गतस्य सतो जातं महिकावर्ष तत आसन्नादिभूभागे निवर्त्तते, अथ दूरमध्वानं गतः ततः किं करोति ? - 'गृह' शून्यं गृहं वृक्षं वा बहलमाश्रित्य तिष्ठति । अथ सभयप्रदेशे गतस्ततः किं कर्त्तव्यमित्याह
सभए वासत्ताणं अदए सुक्खरुक्खचडणं वा । नइकोप्परवरणेणं भोमे पडिपुच्छिआगमणं ॥ ३० ॥ 'सभये' गृहादौ स्तेनकादिभयोपेते 'वर्षात्राणं' वर्षाकल्पं प्रावृत्त्य व्रजति, अथ ' अत्युदकं' महान् वर्षः ततः किं करोति ? - शुष्कवृक्षारोहणं कर्त्तव्यम् । अथासौ सापायो नास्ति ततस्तरण्डं गृहीत्वा तरितुं जलं व्रजति इत्युक्तोऽन्तरिक्षजः, इतरमाह - 'नदी' त्यादि, यदा तु तस्य साधोर्गच्छतोऽपान्तराले नदी स्याद्वक्ररूपा ततस्तस्या नद्याः कूर्परेण व्रजति, नदीं परिहृत्येत्यर्थः । अथवा 'वरणेन' सेतुबन्धेन व्रजति । एवं भौमे प्रतिपृच्छच पूर्वमेव कञ्चित्पुरुषं गमनं कर्त्तव्यम् । इदानीं यदुक्तं 'वरणेन गन्तव्य' मिति, स संक्रमो निरूप्यते, किंविशिष्टेन तेन गन्तव्यं ? कीदृशेन वा (न) गन्तव्यमित्यत आह
नेiगिपरंपरपारि साडिसा लंबवज्जिए सभए । पडिवक्खेण उ गमणं तज्जाइयरे व संडेवा ॥ ३१ ॥ 'नेगंगिपरंपरपारिसाडिसालंबवज्जिए सभए पडिवक्खेण उगमणं' तिन एकाङ्गी-अनेकाङ्गी अनेकेष्टकादिनिर्मितः संक्रमः, 'परंपर' इति परम्परप्रतिष्ठः- न निर्व्यवधानप्रतिष्ठः, 'परिसाडी' ति गच्छतो यत्र धूल्यादि निपतति, 'सालंबवजिए'त्ति सालम्बवर्जितः - सावष्टम्भलग्नरहित इत्यर्थः, सभयो यत्र व्यालादयः शुषिरेषु सन्ति, यद्येभिर्गुणैर्युक्तः संक्रमो भवति तदा न