SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ केनचिदौपग्रहिकेन कार्यासिकेन और्णिकेन वा चीरेण, शेषं प्राग्वत्, पश्चात्तं गोपयति । अथवा 'इतरेण विलंबणालोयंति प्राक् तावदेकाकिनो विधिरुक्तः, यदा तु इतरेण-इतरशब्देन सार्थो गृह्यते, तेनेतरेण-सार्थेन सह प्रव्रजता स्थाण्डिल्याच्चास्थाण्डिल्यं संक्रामता किं कर्त्तव्यं सार्थपुरतः? इत्याह-विलम्बने ति विलम्बना कार्या, मन्दगतिना सता स्थण्डिलस्थेन तावत्प्रतिपालनीयं, कियन्तं कालं प्रतिपालनीयं? यावदालोकन-दर्शनं तस्य सार्थस्य, अदर्शनीभूते तुप्साटान्तरिते सार्थे पादयोःप्रमार्जनं कृत्वा व्रजतीत्ययं विधिः । उक्तो गाथाऽक्षरार्थः, इदानीमष्टभङ्गिका प्ररूप्यते, सा चेयम्-चलो वक्खित्तो अणुवउत्तो य सागारिओ, एत्थ पमजणं, तस्यानुपयुक्तत्वादप्रमार्जनेऽसामाचारीप्रसङ्गात् १, चलवक्खित्तु उवउत्तु एत्थ नत्थि पमजणं सागारियत्तणओ ६२, च० अव० अणु० एत्थवि पमजणं ३, चल० अव० उव० एत्थवि णत्थि पमजणं ४, अच० व० अणु० एत्थ.पमजणं ५, अच० व० उ० णत्थि पमजणं ६, अच० अव० अणु० अत्थि पमजणं ७, अच० अव० उ० एत्थ नत्थि पमजणं ८। तत्थ पढमभंगे नियमेण पमजणा, सत्तसु भयणा ॥ एतदुक्तं भवति-केषुचित्प्रमार्जनं केषुचिदप्रमार्जना, स्थापना त्वियम्2 0 स इदानीं साधुर्मार्गमजानानः पृच्छति, तत्र को विधिरित्याह-.. SAMACROSTALE चलो ब्याक्षिप्तोऽनुपयुक्तश्च सागारिकः, अत्र प्रमार्जनं १ चलो ब्याक्षिप्त उपयुक्तः, अत्र नास्ति प्रमार्जनं, सागारिकत्वात् २, चलोऽव्याक्षिप्तोऽनुपयुक्तः | अत्रापि प्रमार्जनं ३, चलोऽव्याक्षिप्त उपयुक्तः, अत्रापि नास्ति प्रमार्जनं ४, अचलो व्याक्षिप्तोऽनुपयुक्तः, अन्न प्रमार्जनं ६, अचलो ब्याक्षिप्त उपयुक्तः, नास्ति, प्रमार्जनं ६, अचलोऽब्याक्षिप्तोऽनुपयुक्तः, अस्ति प्रमार्जनं ७, अचलोऽव्याक्षिप्त उपयुक्तः, अत्र नास्ति प्रमानं तत्र प्रथमभङ्गे नियमेन प्रमार्जनं सप्तसु भजना।
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy