________________
श्रीओघद्रोणीया वृत्तिः
नियुक्तिः
॥२३॥
मङ्गलत्वात् , न घृतं परितापहेतुत्वात् , न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच्च, काञ्जिकप्रायपायित्वाञ्च संयतानां, किं विहारविपुनस्ते गृह्णन्ति !-दधिसत्तुकादि, तदसौ भुक्त्वा व्रजति, तथा चाह-भत्तहिअस्स गमणं' भुक्तवतस्ततो गमनं भवति,
धिःनि. अथ न तस्य भक्तपरिणतिर्जातेत्यतोऽपरिणते भक्ते सति गव्यूतिमात्रं यावन्मार्ग वहति । क्रोशद्वयं गव्यूतिः॥
११-१२इदानीं तस्य गच्छतो विधिरुच्यते__ अत्थंडिलसंकमणे चलवक्खित्तणुवउत्तमागरिए । पडिपक्खेसु उ भयणा इयरेण विलंबणा लोगं ॥१३॥
स्थण्डिलादस्थण्डिलं च संक्रामता साधुना पादौ रजोहरणेन प्रमार्जनीयाविति विधिः, मा भूत् सचित्तपृथिव्या अचित्तपृथिव्या व्यापत्तिः, स्यात्तथा च पादयोरसौ रजोहरणेन प्रमार्जनं करोति, अथ कश्चित्सागारिकः पथि व्रजतश्चलो भवति व्याक्षिप्तोऽनुपयुक्तश्चेति, तत्र चलो-गन्तुं पथि प्रवृत्तः, व्याक्षिप्तो-हलकुलिशवृक्षच्छेदादिव्यग्रः, अनुपयुक्तः-साधु प्रत्यदत्तावधानः, यदैवंविधः सागारिको भवति तदा रजोहरणेन प्रमृज्य पादौ याति । 'पडिपक्खेसु उ' इति विसदृशाः पक्षाः प्रतिपक्षाः, असदृशा इत्यर्थः, तेषु प्रतिपक्षेषु 'भजना' विकल्पना कर्तव्या, एतदुक्तं भवति-केषुचित्प्रतिपक्षेषु प्रमार्जन क्रियते केषुचित्तु नैव, तुशब्दो विशेषणार्थः, किं विशेषयति ?, प्रतिपक्षेष्वेव समुदायरूपेषु भजना कर्त्तव्या, न त्वेककस्मिन्
भङ्ग इति, यदा तु सागारिकः स्थिरोऽव्याक्षिप्त उपयुक्तश्च साधुं प्रति भवति तदा 'इतरेणं'ति इतरशब्देन रजोहरणनिषहा द्योच्यते तया पादौ प्रमाटिं, न रजोहरणेन, 'विलंबण' त्ति तां च निषद्यां हस्तेन विलम्बमानां नयति, न तच्छरीरसं-16॥२३॥
स्पर्शनं करोति, कियती भुवं यावदित्याह-'आलोयण'त्ति आलोकनमालोको यावत्तदृष्टिप्रसर इत्यर्थः, अथवा 'इतरेणं'ति