________________
श्रीओघ- यो भिक्षुश्चतुर्भिरङ्गुलैन्यूनं भृतं सद् यत्पर्याप्त्या साधोर्भवति तदित्थंभूतं कालप्रमाणोदरप्रमाणसिद्धं पात्रक मध्यमं भवति । उपधिनिरूनियुक्तिः 'एतदेव' पूर्वोक्तं प्रमाणं यदा 'सविशेषतरम्' अतिरिक्ततरं भवति तदा तदनुग्रहार्थं प्रवृत्तं भवति, एतदुक्तं भवति
अवनि- पणं नि. द्रोणीया
18 बृहत्तरेण पात्रकेणान्येभ्यो दानेनानुग्रह आत्मनः क्रियते, तच्च कान्तारे महतीमटवीमुत्तीर्यान्येभ्योऽयर्थ गृहीत्वा व्रजति ४६७९-६८४ -वृत्तिः
येन बहूनां भवति, तथा दुर्भिक्षेऽलभ्यमानायां भिक्षायां बह्वटित्वा बालादिभ्यो ददाति, तच्चातिमात्रे भाजने सति भवति भा. ३२१ ॥२१॥
दानं, तथा रोधके कोट्टस्य जाते सति कश्चिद्भोजनं श्रद्धया दद्यात्तत्र तत् नीयते येन बहूनां भवति, एतेषु 'भजनीयं' सेवनीयं तदतिमात्रं पात्रकम् । इदानीमेतदेव भाष्यकारो व्याख्यानयन्नाहवेयावञ्चगरो वा नंदीभाणं धरे उवग्गहियं । सो खलु तस्स विसेसो पमाणजुत्तं तु सेसाणं ॥३२१॥(भा०)।
वैयावृत्त्यकरो वा नन्दीपात्रं धारयत्यौपग्रहिकमाचार्येण समर्पितं निजं वा, स खलु तस्यैव वैयावृत्त्यकरस्य विशेषः, एतदुक्तं भवति-यदतिरिक्तमात्रपात्रधारणमयं तस्यैवैकस्य वैयावृत्त्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणयुक्तमेव पात्रं भवति, उदरप्रमाणयुक्तमित्यर्थः।
दिजाहि भाणपूरंति रिद्धिमं कोवि रोहमाईसु। तत्थवि तस्सुवओगो सेसं कालं तु पडिकुट्ठो ॥ ६८४॥ ___एतच्च तेन प्रमाणातिरिक्तेन पात्रकेण प्रयोजनं भवति, दद्याद्भाजनपूरक कश्चिदृद्धिमान् पात्रभरणं कश्चिदीश्वरः कुर्यात् , कदा, पत्तनरोधकादौ, तत्र-पात्रकभरणे तस्य नन्दीपात्रकस्योपयोगः शेषकालमुपयोगस्तस्य 'प्रतिकुष्टः' प्रतिषिद्धः कारणमन्तरेणेत्यर्थः। तच्च पात्रक लक्षणोपेतं ग्राह्यं नालक्षणोपेतम् , एतदेवाह- .