________________
मूढो व दिसऽज्झयणे भासतो वावि गिण्हह न सुज्झे । अन्नं व दिसज्ज्ञ यणं संकतोऽणिट्ठविसयं वा ॥ ३०९ ॥ (भा० ) मूढो यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा ओष्ठसञ्चारेण यदि गृह्णाति कालं ततो न शुद्धयति, अन्यां वा दिशं संक्रान्तो मोहात्, अध्ययनं वाऽन्यत् सङ्कांतं द्रुमपुष्पिकां मुक्त्वा" सामन्नपुबए गओ उत्तराए वा दिसाए दक्खिणं गतो, यद्वाऽन्यां दिशं शङ्कमानः अन्यद्वाऽध्ययनं शङ्कमानो यदा भवति तदा न शुद्ध्यति, 'अनिष्टे' अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सियं काऊण नीसरति कालमंडलाओ, एवं गृहीतेSपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि न करोति ततो व्याहन्यत एव काल इति । किच
जो वचतंमि विही आगच्छंतंमि होइ सो चेव । जं एत्थं नाणन्तं तमहं वुच्छं समासेणं ॥ ६५२ ॥ प्रथमं तो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गज्जति वा, एबमाईहिं उवधाओ महियस्सवि कालस्स होइ आगच्छंतस्स वसहिं, ततश्च यो विधिर्व्रजतः कालभूमावुक्तः आगच्छतोऽपि पुनर्वसतौ स एव विधिर्भवति, यत्पुनरत्र वसतौ प्रविशतो नानात्वं भेदस्तदहं नानात्वं वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाहनिसीहिया नमुकारं आसज्जावडपडणजोइक्खे | अपमज्जियभीए वा छीए छिन्नेव कालवहो ॥ ६५३ ॥ कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोक्कारं ' नमो खमासमणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि कालो व्याहन्यते, तथा आसज्जासज्जत्येवं तु यदि न करोति ततो ब्याहन्यते गृहीतोऽपि तथा साधोः कस्यचिदावडणे-आभिडणे कालो व्याहन्यते, पतनं लेष्ट्रादेरात्मनो वा, ज्योतिष्क