________________
मध्ये गणस्य तिस्रः प्रत्युपेक्षणीयाः, कथम् ?, एका स्थण्डिलभूमिर्वसतेरासन्ना मध्येऽन्या अन्या दूरे, एवमेतास्तिस्रः स्थण्डिलभूमयो भवन्ति, तथाऽन्यास्तिस्र एव तस्मिन्नेवाङ्गणे आसन्नतरे भवन्ति अनधिकासिकाः -सञ्ज्ञावेगोत्पीडितः सन् या याति ताः तिस्र एव भवन्ति, एका वसतेरासन्नतरे प्रदेशेऽन्या मध्येऽन्या दूरे, एवमेता अन्तः- मध्येऽङ्गणस्य षड् भवन्ति, तथा षट् च बाह्यत इति - अङ्गणस्य बहिः षडेवमेव भवन्ति । एवमेव 'प्रश्रवणे' कायिकायां द्वादश भूमयः प्रत्युपेक्ष्यन्ते, षडङ्गणमध्ये षट् चाङ्गणबाह्यत एव एताः सर्वा एव उच्चारकायिकाभूमीश्चतुर्विंशतिं प्रत्युपेक्ष्य पुनश्च कालस्यापि ग्रहणे तिस्र एव भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अथ सूर्यो यथाऽस्तमुपयाति तथा कर्त्तव्यं ।
जइ पुर्ण निबाधाओ आवासं तो करेंति सज्ञेवि । सहाइकहणवाघायताए पच्छा गुरू ठंति ॥ ६३५ ॥ एवं सूर्यास्तमयानन्तरं यदि निर्व्याघातो गुरुः-क्षणिक आस्ते ततः सर्व एवाऽऽवश्यं - प्रतिक्रमणं कुर्वन्ति, अथ श्राद्धधर्मकथादिना व्याघातो गुरोर्जातः- अक्षणिकत्वं ततः पश्चाद्गुरुरावश्यकभूमौ संतिष्ठन्ते ।
सेसा उ जहासती आपुच्छिताण ठंति सहाणे । सुत्तस्थझरणहेर्ड आयरिऍ ठियंमि देवसियं ॥ ६३६ ।। शेषास्तु साधवो यथाशक्त्याऽऽपृच्छच गुरुं स्वस्थाने स्वस्थाने यथारलाधिकतयाऽऽवश्यकभूमौ तिष्ठन्ति, किमर्थं १, 'सूत्रार्थक्षरणहेतोः' सूत्रार्थगुणनानिमित्तं तस्यामावश्यकभूमौ कायोत्सर्गेण तिष्ठम्ति, तत्र केचिदेवं भणन्त्याचार्याःयदुत ते साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गेण तिष्ठन्ति, कायोत्सर्गस्थिताश्च ग्रन्थार्थान् चिन्तयन्तस्तिष्ठन्ति ताव