________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
1120011
द्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकमतिचारं चिन्तयति तेऽपि गुरौ तथास्थिते तूष्णींभावेन कायोत्सर्गस्था एव दैवसिकमतिचारं चितयन्ति । अन्ये त्वाचार्या एवं ब्रुवते, यदुत ते साधवः सूत्रार्थं क्षरन्तस्तावत् तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, ततः सामायिकं पठित्वाऽतिचारं चिन्तयंति, आयरिओ अप्पणो अतियारं द्विगुणं चिंतइ, किंनिमित्तं १, ते साहुणो बहुगं हिंडिया ततो तत्तिएण कालेण चिंतिडं न सकंति ।
जो होज उ असमत्यो बालो बुढो गिलाणपरितंतो । सो आवस्सगजुत्तो अच्छेजा निज्जरापेही ॥ ६३७ ॥ यस्तु साधुरनागतकायोत्सर्गकरणेऽसमर्थो भवेद्वालो वृद्धो रोगार्त्तो ज्वरादिना स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमण - भूमौ उपविष्टः कायोत्सर्ग करोति, एवं निर्जरापेक्षी तिष्ठेत् ।
आवासगं तु काउं जिणोवदिहं गुरूवएसेणं । तिन्निथुई पडिलेहा कालस्स विही इमो तत्थ ॥ ६३८ ॥ एवमनेन क्रमेणावश्यकं 'कृत्वा' परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्च स्तुतित्रयं पठन्ति स्वरेण प्रवर्द्धमानमक्षरैर्वा, प्रथमा | श्लोकेन स्तुतिर्द्वितीया बृहच्छन्दोजात्या बृहत्तरा तृतीया बृहत्तमा एवं प्रवर्द्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति, ततः कालस्य प्रत्युपेक्षणार्थं निर्गच्छन्ति, किं कालस्य ग्रहणवेला वर्त्तते न वा? इति, तत्र च - कालवेला निरूपणे एष विधिरिति वक्ष्यमाणः । हो होइ कालो वाघातिम एयरो य नायो । वाघाओ धंघसालाएँ घट्टणं सुहृकहणं वा ॥ ६३९ ॥ द्विविधो भवति कालो - व्याघातकाल इतरश्च - अव्याघातकालः, तत्र व्याघातकालं प्रतिपादयन्नाह - व्याघातः 'घव
आवश्यक
नि. ६३५६३७ कालग्रहणविधिः
नि. ६३९
॥२००॥