________________
प्रचुरद्रवेण कुरुकुचादिकं कर्त्तव्यं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरुकुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः ?, उच्यते, अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोके शब्दं कुर्वद्भिर्गन्तव्यं, भावासन्ने पुनर्यतनायां यन्नानात्वं तच्छृणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति, जदि पढमं न तरेजा तो बितियं तस्स असइए तइयं । तस्स असई चउत्थे गामे दारे य रत्थाए ॥ ६२१॥
यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं व्रजेत्, 'तस्य' द्वितीयस्यासति तृतीयं ब्रजेत्, 'तस्य' तृतीयस्य स्थण्डिलस्यासति चतुर्थ स्थण्डिलं व्रजेत्, यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति ॥
साही पुरोहडे वा उवस्सए मत्तगंमि वा णिसिरे । अचुकडंमि वेगे मंडलिपासंमि वोसिरह ॥ ६२२॥ | यदा रथ्यायामपि गन्तुं न शक्नोति तदा 'साहीए' खडकिकायां गत्वा व्युत्सृजति, यदा खडकिकायां गन्तुं न समर्थस्तदा 'पुरोहडे' अग्रद्वारे व्युसृजेत् , यदा पुरोहडमपि गन्तुं नालं तदोपाश्रये मात्रके वा व्युत्सृजेत् , सर्वथा 'अच्चुक्कडंमि वेगे मंडलीपासंमि वोसिरति' सुगमम् । इदं च लोकेऽपि प्रसिद्धं, यदुत प्राप्तपुरीषादेर्वेगो न धार्यते । अत्र च कथानकम्एगो राया तस्स य वेजो पहाणो सो मतो, तंमि मए राइणा गवेसावियं एयस्स पुत्तो अत्थि वा न वा?, तस्स य कहियंअत्थि एगा सुया, ताए य सयलं वेजयं अहीयं, हक्कारिया आयाया, राइणा भणिया य-किं ते भणियं ?, सा भणइ