________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१९७॥
मिति, अत आह— 'निसिरेज्ज' व्युत्सृजेत्, अथवा किमत्र प्रष्टव्यं ?, धुवमाहारान्नीहारो भवति, ततश्च स्थण्डिले व्युत्सृजनं कर्त्तव्यं, तत्र स्थण्डिलं पूर्वभणितमेव, तथाऽऽह -
होस दोस जयणाए । नवरं पुण णाणत्तं भावासन्नाए वोसिरणं ॥ ६१८ ॥
स्थण्डिलं पूर्वभणितमेव, यदुत अनापातं असंलोकं १ अनापातं ससंलोकं २ सापातमसंलोकं ३ सापातं ससंलोकं ४ अत्र प्रथमो भङ्गको निर्दोषः, द्वयोश्च द्वितीयतृतीयभङ्गकयोर्यतनया व्युत्सृजति, एतत्पूर्वोक्तस्थण्डिलस्य सामान्यमेव, 'नवरं पुण णाणन्तं 'ति नवरं - केवलमिदं नानात्वं, यदुतात्र भावासन्ने - अतिपीडायां व्युत्सृजनमनुज्ञातं, तत्र चानुज्ञा नैव कृताऽऽसीदिह च कृताऽतो नानात्वं, ततञ्चतुर्थभङ्गकासेवनमप्यनुज्ञातमेव द्रष्टव्यमिति । इदानीं भाष्यकारः पूर्वोक्तस्थण्डि - लानि प्रदर्शयन्नाह -
अणावायमसंलोयं अणावायालोय ततिय विवरीयं । आवातं संलोगं पुत्ता थंडिला चउरो ॥ ३०८ ॥ ( भा० ) अनापातमसंलोकं च प्रथमो भङ्ग उक्तस्तथाऽन्यदनापातमालोकं च द्वितीयं तृतीयं पुनर्विपरीतं स्थण्डिलं – सापातमसंलोकमित्यर्थः, तथाऽन्यदापातं संलोकं च चतुर्थो भङ्गकः, एतानि पूर्वोक्तस्थण्डिलानि चत्वारि ।
अणावायमसंलोगं निद्दोसं वितियचरिम जयणाए । पउरदवकुरुकुयादी पत्तेयं मत्तगा चैव ॥ ६१९ ॥ तइएवि य जयणाए नाणतं नवरि सहकरणंमि । भावासन्नाए पुण नाणत्तमिणं सुणसु वोच्छं ॥ ६२० ॥ अन्नानापातमसंलोकं च स्थण्डिलं निर्दोषं, द्वितीयतृतीयचरमेषु भङ्गकेषु यतनया व्युत्सर्जनं कर्त्तव्यं, का चासौ यतना ?,
अजाता पा रिष्ठापनि
का नि. ६१४-६१६ संज्ञाव्युत्स
र्जनं नि.
६१७-६२०
भा. ३०८
॥१९७॥