________________
श्रीओघनियुक्तिः द्रोणीया 'वृत्तिः
॥१९५॥
दिति, एवमुक्ते परेण आह सूरिः-'अइरेगं होज उ इमेहिं' 'अतिरिक्तं' शुद्धमपि भक्तं 'एभिः' वक्ष्यमाणकारणैर्भवेत् , जातापारिकानि च तानि वक्ष्यमाणकारणानीत्यत आह
ष्ठापनिका| आयरिए य गिलाणे पाहुणए दुल्लभे सहसदाणे । एवं होइ अजाया इमा उ गहणे विही होइ ॥ ६०७॥
यांत्रिस्थान
श्रावणं नि. ___ कदाचित्कस्मिंश्चित्क्षेत्रे आचार्यप्रायोग्यं दुर्लभं भवति ततश्च सर्व एव सङ्घाटका आचार्यप्रायोग्यस्य ग्रहणं कुर्वन्ति ततश्च
४६०५अजा तद् घृतादि कदाचित्सर्व एव लभन्ते ततस्तदुद्धरति, ततोऽन्येषां च साधूनां पर्याप्त, एवमाचार्यार्थ गृहीतस्य शुद्धस्यापि
तापारिष्ठाप परिष्ठापना भवति । तथा ग्लानार्थमप्येवमेव गृहीतं सदुद्वरति, प्राघूर्णकानामप्येवमेव, तथा दुर्लभलाभे सति सर्वैरेव सङ्घाटकै- निका नि. गृहीतमुद्वरति, तथा 'सहसदाणे' अप्रतर्कितदाने सति प्रचुरमुद्धरति, तत एवं भवति अजातापरिष्ठापनिका । तत्र चाचा- ६०६-६०९ र्यादीनां ग्रहणेऽयं विधिः-वक्ष्यमाणः, कश्चासावित्यत आहजइ तरुणो निरुवहओ भुंजइ तो मंडलीइ आयरिओ। असहुस्स वीसुगहणं एमेव य होइ पाहुणए॥६०८॥ । केचनैवं भणति-यद्यसावाचार्यस्तरुणो निरुपहतपञ्चेन्द्रियश्च ततोऽसौभण्डल्यामेव भुतेसामान्यं, अथ असहू-असमर्थस्ततस्तस्य विष्वक्-पृथग् ग्रहणं प्रायोग्यस्य कर्त्तव्यं, एवमेव प्राघूर्णकेऽपि विधिद्रष्टव्यः, यदि प्राघूर्णकः समर्थस्ततो नैव तत्प्रायोग्यग्रहणं क्रियते, अथासमर्थस्ततः क्रियत इति, केचित्पुनरेवं भणन्ति-यदुत समर्थस्याप्याचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, यत एते गुणां भवन्ति
॥१९५॥ सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमायो । दाणवतिसद्धवुड्डी बुद्धिबलवडणं चेव ॥ ६०९॥