________________
SHANKARACARRORSCRIKAAC
जति, तेन च गुरुणा गन्धादिना विज्ञाते, आदिग्रहणाद् भत्तस्स उप्फंसणेण वा, 'उज्झन' परित्यागः क्रियते तत्र विधिना, अबिधिपरिठापने सति शृगालादिवधो भवति । एवं विद्याभिमन्त्रितस्य योगचूर्णकृतस्य तथा विषसंयुक्तस्य गृहीतस्य सतः 'प्राणात्ययेऽपि' अत्यर्थ क्षुत्पीडायामपि सत्यां नियमेन-अवश्यन्तयोज्झनीयं (ना कार्या ) तस्य च परिष्ठापनविधि वक्ष्या पूर्वार्द्ध पूर्ववत् , तद्विषादिकृतं भोजनं 'छारेण भूत्या 'आक्रम्य मिश्रीकृत्य चैव परिष्ठापनीयं, सुगमम् । इदानीं 'तिहाणं सावणं'ति व्याख्यायते| दोसेण जेण दुढे तु भोयणं तस्स सावणं कुज्जा । एवंविहवोसढे वेराओ मुच्चई साहू ॥६०५॥ | दोषेण येन-मूलकर्मादिना आधाकर्मादिना वा दुष्टं भोजनं भवति तस्य तिस्रो वाराः श्रावणं कर्त्तव्यं, यदुत मूलकPादिदोषैर्दुष्टमिति, एवमुत्तरगुणयोगमन्त्रविषकृतदुष्टानामपि तिस्रो वाराः श्रावणं करोति, एवं विधिना व्युत्सृष्टे सति | 'वैरात्' कर्मणो मुच्यते साधुः, अथवा 'वैरात्' जीववधजनितान्मुच्यते साधुरिति ॥ आह-इदमुक्तं शुद्धाया भिक्षाया
यत्परिष्ठापनं साऽजातापरिष्ठापनिकीत्युच्यते, ततश्च| जावइयं उवउजइ तत्तिअमित्त विगिंचणा नत्थि । तम्हा पमाणगहणं अइरेगं होज उ इमेहिं ॥६०६॥
यावन्मात्रकमेषोपयुज्यते तावन्मानमेव भिक्षाग्रहणं कर्त्तव्यं, यदा चैवं तदा तावन्मात्रकग्रहणे 'विगिंचनं परिष्ठापनं 'नास्ति' न भवति तस्मात्प्रमाणग्रहणमेव कर्त्तव्यं, ततश्च कुतोऽजातायाः संभवति परिठापनम् १, अतिरेकमहणाभावा