________________
SAMACHAR
'आचार्यस्य प्रायोग्यग्रहणे क्रियमाणे सूत्रार्थयोः स्थिरीकरणं कृतं भवति, यतो मनोज्ञाहारेण सूत्रार्थों सुखेनैव चिन्तयति, अत आचार्यस्य प्रायोग्यग्रहणं कर्त्तव्यं, तथा विनयश्चानेन प्रकारेण प्रदर्शितो भवति, गुरुपूजा च कृता भवति, सेहस्य चाचार्य प्रति बहुमानः प्रदर्शितो भवति, अन्यथा सेह इदं चिन्तयति, यदुत न कश्चिदत्र गुरु पि लघुरिति, अतो विपरिणामो भवति, तथा प्रायोग्यदानपतेश्च श्रद्धावृद्धिः कृता भवति, तथा बुद्धेबलस्य चाचार्यसत्कस्य वर्द्धनं भवति, तत्र च महती निर्जरा भवति ।
एएहिं कारणेहि उ केइ सहुस्सवि वयंति अणुकंपा । गुरुअणुकंपाए पुण गच्छे तित्थे य अणुकंपा ॥ ६१०॥ _ 'एभिः' पूर्वोक्तकारणैः केचित्समर्थस्याप्याचार्यस्यानुकम्पा कर्तव्येत्येवं वदन्ति, यतो गुरोरनुकम्पया गच्छे तीर्थे चानु|कम्पा कृता भवति । यतश्चैवमतः प्रायोग्यग्रहणं ग्राह्यमिति ॥ अत आह
सति लाभे पुण दधे खेत्ते काले य भावओ चेव । गहणं तिसु उक्कोसं भावे जं जस्स अणुकंपं ॥ ६११ ॥ 'सति' विद्यमाने लाभे द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टं ग्राह्यं । इदानीं नियुक्तिकारो व्याख्यानयन्नाह'गहणं तिसु उक्कोसं' ग्रहणं त्रिषु द्रव्यक्षेत्रकालेषु उत्कृष्टं कर्त्तव्यं, भावे तु यद्वस्तु यस्याचार्यस्यानुकूलं तद्गृह्यते । इदानीं भाष्यकृव्याख्यानयति, तत्र द्रव्ये उत्कृष्टतां प्रदर्शयन्नाहकलमोतणो उ पयसा उक्कोसो हाणि कोवुन्भज्जी। तत्थवि मिउतुप्पतरयं जत्थ व जं अचियं दोसु॥३०७॥ (भा०)
कलमशाल्योदनः पयसा सह द्रव्यमुत्कृष्टं ग्राह्य, तदलाभे हान्या तावत् गृह्यते यावत् 'कोद्दवोभज्झी' कोद्दवजाउ