________________
ओ० ४
तत्प्रतिबद्धो दीक्षित इति कुप्यते, आज्ञालोपे वा काचिदाज्ञा लोपिता-न कृता ततश्च कुप्येत् ?, अन्तःपुरे प्रवेशं कृत्वा केनचिलिङ्गधारिणा विकर्म कृतं ततः प्रद्वेषं यायात्, वादिना वा केनचिद्भिक्षुणा परिभूत इति, ततो निमित्तात् स इति - राजा प्रद्विष्यति प्रदुष्येद्वा । द्वारम् । 'तं पुण रायदुडं कहं होज्जा ?, केणति लिंगत्थेणमंतेउरमवरद्धं होज्जा । अहवा जहा वा वादिणा वादे " तस्स पंडियमाणस्स बुद्धिल्लस्स दुरप्पणो । मुद्धं पाएण अक्कम्म वाई वाउरिवागओ ||१||” एवं राय दुई भविज्जा, निबिसए भत्तपाणपडिसेहे उवगरणहरे अ एत्थ गच्छेण चैव वच्चंति, जत्थ जीवचरित्तभेओ तत्थ एगाणिओ होज्जा । दारं ॥ क्षुभितद्वारं व्याचिख्यासुराह -
खुभिए मालुज्जेणी पलायणं जो जओ तुरिअं ॥ २६ ॥ ( भा० )
क्षोभे एकाकी भवति, क्षोभः - आकस्मिकः संत्रासः, तत्र 'मालुज्जेणि' त्ति माला अरहट्टस्य पतिता, उज्जयनी नगरी, उज्जयिन्यां बहुशो मालवा आगत्यागत्य मानुषादीन् हरन्ति, अन्यदा तत्र कूपेऽरघट्टमाला पतिता, सत्र केनचिदुक्तमाला पतिता, अन्येन सहसा प्रतिपन्नं मालवाः पतिताः, ततः संक्षोभः, तत्र किं भवति ?, आह-'पलायण जो जओ तुरियं' 'पलायनं' नाशनं यः कश्चिद्यत्र व्यवस्थितस्तच्छ्रुतवान् स तत एव नष्ट इति । 'मालुज्जेणि' त्ति दृष्टान्तसूचकं वचनम् ।
१ तत् पुना राजद्विष्टं कथं भवेत् ?, केनचित् लिङ्गस्येनान्तः पुरमपराद्धं भवेत्, अथवा यथा वा वादिना वादे-तस्य पण्डितंमन्यस्य बुद्धिमत्ताभिमानिनो दुरात्मनः । मूर्धानं पादेनाक्रम्य वादी वायुरिवागतः ॥ १ ॥ एवं राजद्विष्टो भवेत्, निर्विषये भक्तपानप्रतिषेधे उपकरणहरे चात्र गच्छेनैव व्रजन्ति, यत्र जीवचारित्रभेदस्तत्रैकाकी भवेत् । द्वारं ।