________________
तइएवि अविहिगहिअं विहिभुत्तं तं गुरूहिऽणुन्नायं । सेसा नाणुन्नाया गहणे दत्ते य निज्जुहणा ॥ २९९ ॥ ( भा० ) अहवावि अकरणाए उवद्वियं जाणिऊण कल्लाणं । घट्टेडं दिति गुरू पसंगविणिवारणट्ठाए ॥ ३०० ॥ ( भा० )
विधिनोद्गमदोषादिरहितं सारासारविभागेन च यन्न कृतं पात्रके तद्विधिगृहीतं, तथा 'विधिभुक्तं' कटकच्छेदेन प्रतरच्छेदादिना वा यद्भुतं तद्विधिभुक्तमुच्यते, तदेवंविधं विधिगृहीतं विधिभुक्तं च यद्यदतिरिक्तं संजातं भक्तं पानकं वा तद्भोक्तव्यं - परिष्ठापनकं कल्पते, अत आह प्रकारान्तरेण - अत्र च विधिगृहीते विधिभुंक्ते चास्मिन् पदद्वये चत्वारोभङ्गका भवन्ति, तद्यथा - विहिगहिअं विहिभुत्तं एगो भंगो, विहिगहिअं अविहिभुतं बिइओ, अविहिगहिअं विहिभुत्तं तइओ, अविहिगहिअं अविहिभुत्तं चउत्थो ॥ इदानीं भाष्यकारो विधिगृहीताविधिगृहीतयोः स्वरूपं प्रतिपादयन्नाह - उद्गमदोषादिभिर्जढं त्यक्तं यत्तद्विधिगृहीतं, अथवा यद्वस्तु मण्डकादि यथैव यस्मिन् स्थाने पतितं भवति तत्तथैवास्ते नतु समारयति इत्येष ग्रहणविधिः । 'असुद्धपच्छायणे अविही' अशुद्धस्य - उद्गमादिदोषान्वितस्य यग्रहणं इदमविधिग्रहणं, | अथवा गुडादेर्द्रव्यस्य मण्डकादिना प्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनं तदविधिग्रहणमुच्यते । इदानीमविधिविधिभोजनयोः स्वरूपं प्रतिपादयन्नाह - काकभुक्तं शृगालभुक्तं द्रावितरसमित्यर्थः 'सर्वतः परामृष्टम्' उत्थलपत्थलणेण भुक्तं 'एसो उ भवे अविही' इदं पूर्वोक्तमविधिना भुक्तमुच्यते, यथैव गृहीतं पात्रके तथैव भुञ्जतो विधिमुक्तमुच्यते । अधुना भाष्यकृद् व्याख्यानयति, तत्राद्यावयवप्रतिपादनायाह-यथा काक उच्चित्योच्चित्य विष्ठादेर्मध्याद्वल्लादि भक्षयति एवम सावपि, अथवा विकिरति काकवदेव सर्वं, तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा शृगाल इवान्य
•