________________
श्रीओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१९२॥
त्रान्यत्र प्रदेशे भक्षयति । सुरभि यद् 'दोचंगं' तीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिवनं यत्तद् द्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आम' विपर्यासीकृतं भुङ्क्ते तदेतत्पराम, अयमेष भोजनेऽविधिः । कः पुनर्ग्रहणभोजनयोर्विधिः ? इत्यत आह-यथैव गृहीतं गृहस्थेन दत्तं सत्तत्तथैवानीतं यदयं ग्रहणविधिः, भोजने पुनरयं विधिः- यदुतोत्कृष्टद्रव्यमनुत्कृष्टद्रव्यं च समीकृतरसं भुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति । तृतीयेऽपि भङ्गकेऽविधिना असामाचार्या गृहीतं विधिना भुक्तं-समीकृतरसं सद् भुक्तं तच्च गुरुणाऽनुज्ञालं, शेषौ तु द्वौ भङ्गको नानुज्ञातौ, यस्तु विधिगृहीतमविधिभुक्तं काकशृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निज्जुहणा' निर्द्धारणं क्रियते, तथाऽविधिगृहीतमविधिभुक्तं च यो ददाति गृह्णाति वा तयोर्द्वयोरपि निर्द्धारणं क्रियत इति । अथवा एतद्दोषाकरणतया - अनासेवनया उपस्थितं दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकं च गुरवो ददति, तच्च ददति 'घट्टयित्वा' तिरस्कृत्य यदुत त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तं करोतीत्यत आह- 'पसंगविणिवार - ट्ठाए' प्रसङ्गस्य - पुनरासेवनस्य निवारणार्थमेवं करोतीति ।
घासेसणा य एसा कहिया भे ! धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंधाणं महरिसीणं ॥ ३०९ ॥ ( भा० ) एयं घासेसणविहिं जुंजता चरणकरणमा उत्ता । साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ ३०२ ॥ ( भा० ) एतो परिद्ववणविहिं वोच्छामि धीरपुरिसपन्नत्तं ।
जं नाऊण सुविहिया करेंति दुक्खक्खयं धीरा ॥ ३०३ ॥ ( भा० )
पारिष्ठापनिकावि
धिः भा. ३०१-३०३
॥१९२॥