________________
| होज सिआ उद्धरियं तत्थ य आयंबिलाइणो हुज्जा । पडिदंसि अ संदिट्ठो वाहरइ तओ चउत्थाई ॥ ५८७ ॥ मोहचिच्छिविहिं गिलाण अत्तट्ठियं च मोत्तूणं । सेसे गंतुं भणई आयरिआ वाहरंति तुमं ॥ ५८८ ॥ अपडिहणतों आगंतु वंदिउँ भगइ सो उ आयरिए । संदिसह भुंज जं सरति तत्तियं सेस तस्सेच ॥ ५८९ ॥ अभणतस्स उ तस्सेव सेसओ होइ सो विवेगो उ । भणिओ तस्स उ गुरुणा एसवएसो पवयणस्स ॥ ५९० ॥ भुत्तंमि पढमकप्पे करेमि तस्सेव देति तं पायं । जावतिअंतिअ भणिए तस्सेव विगिंचणे सेसं ।। ५९१ ॥
'भवेत्' स्यात् कदाचिदुद्वरितं 'तत्र' साधूनां मध्ये कदाचित्केचिदाचाम्लादयो भवन्ति आदिग्रहणादभक्तार्थिको वा कश्चिद्भवेत्ततस्तदुद्वरितं भक्तं रत्नाधिक आचार्याय दर्शयति, पुनश्च प्रदर्शिते भक्ते गुरुणा च 'सन्दिष्टः' उक्तः यदुत आह्वयाचाम्लादीन् साधून् येन तेभ्यो दीयते, पुनश्चासौ रत्नाधिकः सन्दिष्टः सन् चतुर्थादीन् साधून् व्याहरति । स च व्याहरन्नेतान्न व्याहरति, मोहचिकित्सार्थं य उपवासिकः स्थितस्तं न व्याहरति, तथा विकृष्टतपसं साधुं न व्याहरति, विकृष्टतपश्चाष्टमादारभ्य भवति, तस्य कदाचिद्देवता प्रातिहार्य करोति अतस्तस्य न दीयते, ग्लानश्च ज्वरादिना तं च न व्याहरति, आत्मलब्धिकं चिन व्याहरति, एताननन्तरोदितान् साधून् मुक्त्वा शेषान् गत्वा भणति, यदुत आचार्या व्याहरन्ति युष्मान, तेषां च मध्ये यश्चतुर्थादिक आकारितः स आकर्ण्य किं करोति ? इत्याह- अनतिलङ्घयन् गुरोराज्ञामागत्य वन्दित्वा भणति तमाचार्य यदुत - संदिशस यूयं, आचार्योऽपि भणति-भुञ्जीत, सोऽपि भणति - जं सरति तत्तिअं भुञ्जामि, शेषं यदुद्वरितं तत्तस्यैव यस्य सत्कः प्रतिग्रहकः, पुनश्च स एव परिष्ठापयतीति अथासौ साधुरेवं न भणति यदुत 'जं सरइ तत्तिअं' व्रतस्तस्य एवमभणत