________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१९॥
पदस्थ एव भुते नान्यथा । इदानीं समुद्दिष्टे सति संलिहनकल्पः कर्त्तव्यः-भिक्षाभक्तविलिप्तानां पात्रकाणां संलिहनं आहारस्याकर्तव्यमित्यर्थः, स च
पवादता
नि. ५८३ भत्तट्ठियावसेसो तिलंबणा होइ संलिहणकप्पो। अपहुप्पत्ते अन्नं छोडं ता लंबणे ठवए ॥५८४ ॥
पात्रकल्प: संदिट्ठा संलिहिलं पढमं कप्पं करेइ कलुसेणं । तं पाउं मुहमासे वितियच्छवस्स गिण्हंति ॥५८५ ॥
नि.५८४दाऊण बितियकप्पं बहिआ मज्झट्टिओ उ दवहारी । तो देति तइयकप्पं दोण्हं दोण्हं तु आयमणं ॥५८६॥
भुक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाणः? अत आह-'त्रिलम्बनः' त्रिकवलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाणः संलेखनकल्पो न भवति तदाऽपर्या-2 प्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कवलान् स्थापयति । 'सन्दिष्टाः' भुक्ताः सन्तः संल्लिह्य पात्र-18 काणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासोत्ति मुखस्य परामर्शः-प्रमार्जनं कुर्वन्तीति, पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽथ कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षा-2 लनार्थ गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं 'बाह्यतः' पात्रकप्रक्षालनभूमौ, ते चमण्डल्याकारेण तत्रोपविशन्ति, तेषां मध्ये|8 |स्थितो द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं,। पुनश्च पात्रकप्रक्षालनानन्तरं 'दोहं दोण्हं व आयमणं'ति द्वयोर्द्वयोः साध्वोर्मात्रकेषु 'आचमनार्थ' निर्लेपनार्थमुदकं | प्रयच्छतीति । एष तावदनुद्वरित भक्ते विधिरुतः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह
॥१९॥