________________
portret
शरीरपरिकर्मानन्तरं सर्वाहारं मुश्चतीति ॥ इदानीं भाष्यकार एव एतानि षट् स्थानानि प्रदर्शयन्नाह-'आतङ्कः' ज्वरादिर्वश्यते, तथा 'उपसर्गः' राजादिजनितः, एतेषां 'तितिक्षार्थ' सहनार्थ न भोक्तव्यं, तथा ब्रह्मचर्यगुप्त्यर्थं च न भोक्तव्यं, तथा| तपोऽर्थ शरीरव्यवच्छेदार्थ च न भोक्तव्यमिति । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह-आतङ्को-ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यं तदर्थ-न भुङ्क्ते। दारं । राज्ञा राजकुलधारणादिरूंपो यद्युपसर्गः कृतः, सणायगो वा-स्वजनः यदि उन्निष्क्रमणार्थमुपसर्ग करोति ततो न भुढे । दारं । ब्रह्मव्रतपाल-14 नार्थ न भुते, यतो बुभुक्षितस्योन्मादो न भवति । दारं । तथा प्राणदयार्थ न भुते, यदि वर्षति महिका वा निपतति ।। दारं ॥ तपोऽर्थ न भुते, तच्च चतुर्थादि यावत्षण्मासास्तावत्तपो भवति तदर्थ न भुते । दारं । षष्ठं शरीरस्य व्यवच्छे-18 दार्थमनाहारः साधुर्भवतीति ॥ एभिः पूर्वोक्तैः षड्भिः स्थानैरनाहारो यो भवति स धर्म नातिक्रामति भिक्षुरतो ध्यानयोगरतेन भवितव्यमिति । अथेदमुक्तं षड्भिः कारणैराहार आहारयितव्यः षद्भिश्च कारणैर्नाहारयितव्यस्ततः किमेतद्भोजनमपवादपदं ?, उच्यते ?, अपवादपदमेवैतद्, यतः| झुंजतो आहारं गुणोवयारं सरीरसाहारं । विहिणा जहोवइ8 संजमजोगाण वहणट्ठा ॥५८३॥
भुञ्जन्नाहारं, किंविशिष्टं ?-गुणोपकारं' ज्ञानदर्शनचारित्रगुणानामुपकारक, तथा शरीरस्य साधारकमाहारं भुञ्जन् | विधिना-ग्रासैषणाविशुद्धं 'यथोपदिष्टम्' आधाकर्मादिरहितं 'संयमयोगानां' संयमव्यापाराणां वहनार्थं भुञ्जन्नपवाद
QARASSICURA