SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भक्तं प्रथमालिका तावद्दीयते अथ वहवः क्षुधालवस्ततः पतङ्ग्रहकं मुच्यते तेभ्यो रक्षणार्थं गच्छं 'समासज्ज'त्ति गच्छमल्पं बहुं वा ज्ञात्वा तदनुरूपं पतद्रहं मुञ्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्वेत्यत आहचित्तं बालाईणं गहाय आपुच्छिऊण आयरिअं । जमलजणणीसरिच्छो विवेसई मंडलीथेरो ॥ ५६१ ॥ चित्तं बालादीनां गृहीत्वा पृष्ट्वाऽऽचार्य मण्डलीस्थविरः प्रविशति, किंविशिष्टः ? इत्यत आह-जमलजणणीसरिच्छो 'निवेसई' उपविशति मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धाशुद्धाश्च तान् प्रदर्शयन्नाह - • जइ लुद्धो राइणिओ होइ अलुद्धोवि जोवि गीयत्थो । ओमोवि हु गीयत्थो मंडलिराइणि अलुद्धो उ ॥ ५६२ ॥ यद्यसौ मण्डलीस्थविरो लुब्धो रत्नाधिकश्च ततस्तिष्ठति - न प्रविशति, अनेन च लुब्धपदेन द्वितीयचतुर्थषष्ठाष्टमा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । 'अलुद्धोवि जोवि गीयत्थो ओमोवि हु'त्ति अलुब्धोऽपि यदि गीतार्थ ओमः - लघुपर्यायः स मण्डल्यां परिविशति, अनेन च ग्रन्थेन तृतीयो भङ्गकः कथितो भवति, अयं च प्रथमभङ्गकाभावे भवति, अत्र च भङ्गके गीतार्थपदग्रहणेन यत्र यत्र भङ्गकेऽगीतार्थपदं स सर्वो दुष्टो ज्ञातव्यः । 'गीयत्थो मंडलिराइणिउत्ति अलु 'त्ति यस्तु पुनर्गीतार्थी रत्नाधिकोऽलुब्धश्च स मंडल्यामुपविशति, अनेन च ग्रन्थेन प्रथमो भङ्गकः शुद्धः प्रदर्शितो भवति, सर्वथा यत्र यत्र लुब्धपदमगीतार्थपदं च स परिहार्यः, ओमराइणियपदं च यद्यगीतार्थः लुब्धपदं च न भवति पण्डलीस्थविरः नि. | ५६१-५६२
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy