SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीओघ GAUR नियुक्तिः द्रोणीया वृत्तिः मण्डल्या: स्थानादि नि.५६३ भा.२८१२८२ ॥१८५॥ tanto ततोऽपवादे शुद्धं भवति, प्रथमं तु शुद्धमेव ॥ इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते, स चालोको द्विविधो- द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह-. ठाणदिसिपगासणया भायणपक्खेवणा य भावगुरू । सो चेव य आलोगो नाणतं तद्दिसा ठाणे ॥५६३ ॥ स्थानं वक्तव्यं उपविशने दिग् वक्तव्या प्रकाशमुखे भाजने भोक्तव्यं, भाजनक्रमो वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्यं, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथा वक्ष्यति स्थानं च ॥ इदानीं भाष्यकारः स्थाननानात्वं दर्शयति, तत्र स्थानव्याख्यानार्थमाहनिक्खमपवेस मोत्तुं पढमसमुद्दिस्सगाण ठायंति । सज्झाए परिहाणी भावासन्नेवमाईया ॥ २८१ ॥(भा०) __ प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशौ मुक्त्वा उपविशन्ति, किमर्थ ?, तत्र यदि ते मार्ग रुद्धा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहाणिर्भवति, तथा 'भावासन्नस्य' सज्ञादिवेगंधारणासहिष्णोः पीडा भवति । एवमादयोऽन्येऽपि दोषाः॥ दिग्द्वारप्रतिपादनायाहपुवमुहो राइणिओ एक्को य गुरुस्स अभिमुहोठाइ। गिण्हइव पणामेइ व अभिमुहोइहरहाऽवन्ना॥२८२॥ (भा०) पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्यां, तस्यां च मण्डल्यामेकः साधुगुरोरभिमुख उपविशति, किमर्थ ?, कदाचित्किञ्चिद्गुरोरतिरिक्तं भवति तद् गृह्णाति दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पित, एवमर्थमभिमुख ॥१८५॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy