________________
श्रीओघ
GAUR
नियुक्तिः
द्रोणीया वृत्तिः
मण्डल्या: स्थानादि नि.५६३ भा.२८१२८२
॥१८५॥
tanto
ततोऽपवादे शुद्धं भवति, प्रथमं तु शुद्धमेव ॥ इदानीं ते मिलिताः सन्त आलोके भुञ्जन्ते, स चालोको द्विविधो- द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रदीपादिः, भावतः सप्तप्रकारस्तं दर्शयन्नाह-. ठाणदिसिपगासणया भायणपक्खेवणा य भावगुरू । सो चेव य आलोगो नाणतं तद्दिसा ठाणे ॥५६३ ॥
स्थानं वक्तव्यं उपविशने दिग् वक्तव्या प्रकाशमुखे भाजने भोक्तव्यं, भाजनक्रमो वक्ष्यमाणः, प्रक्षेपणं वदने वक्तव्यं, भावालोको वक्तव्यः, गुरुर्वक्तव्यः, स एवालोकः पूर्वोक्तः, नानात्वं त्वत्र यदि परं दिशः स्थानस्य च, अत्र दिक्पदमन्यथा वक्ष्यति स्थानं च ॥ इदानीं भाष्यकारः स्थाननानात्वं दर्शयति, तत्र स्थानव्याख्यानार्थमाहनिक्खमपवेस मोत्तुं पढमसमुद्दिस्सगाण ठायंति । सज्झाए परिहाणी भावासन्नेवमाईया ॥ २८१ ॥(भा०) __ प्रथमसमुद्दिष्टानां ग्लानादीनां निर्गमप्रवेशौ मुक्त्वा उपविशन्ति, किमर्थ ?, तत्र यदि ते मार्ग रुद्धा मण्डल्यां तिष्ठन्ति ततः पूर्वोक्तानां स्वाध्यायपरिहाणिर्भवति, तथा 'भावासन्नस्य' सज्ञादिवेगंधारणासहिष्णोः पीडा भवति । एवमादयोऽन्येऽपि दोषाः॥ दिग्द्वारप्रतिपादनायाहपुवमुहो राइणिओ एक्को य गुरुस्स अभिमुहोठाइ। गिण्हइव पणामेइ व अभिमुहोइहरहाऽवन्ना॥२८२॥ (भा०)
पूर्वाभिमुखो रत्नाधिक उपविशति मण्डल्यां, तस्यां च मण्डल्यामेकः साधुगुरोरभिमुख उपविशति, किमर्थ ?, कदाचित्किञ्चिद्गुरोरतिरिक्तं भवति तद् गृह्णाति दातव्यं वा किञ्चिद्भवति तद्ददाति मण्डलीस्थविरेणार्पित, एवमर्थमभिमुख
॥१८५॥