________________
ठाणदिसिपगासणया भायणपक्खेवणे य गुरुभावे । सत्तविहो आलोको सयावि जयणा सुविहियाणं ॥ ५५० ॥
तैश्चामण्डलिसमुद्दिशकैर्निष्क्रमप्रवेशवर्जिते स्थाने भोक्तव्यं, तथा कस्यां दिशि आचार्यस्योपवेष्टव्यमित्येतद्वक्ष्यति, तथा सप्रकाशे स्थाने भोक्तव्यं, भाजने च विस्तीर्णमुखे भोक्तव्यं, प्रक्षेपणं च कवलानां कुर्कुट्यण्डकमात्राणां कर्त्तव्यं, तथा गुरोचक्षुः पथे भोक्तव्यं, तथा भावो ज्ञानादि तत्संवहनार्थं भोक्तव्यमित्येतद्वक्ष्यति । एवमयं सप्तविध आलोकः, सदाऽपि च यतना| तस्मिन् सप्तविधेऽप्यालोके यतना सुविहितानाम् । इदानीं भाष्यकारो व्याचष्टे प्रतिपदं तत्राद्यावयवव्याचिख्यासयाऽऽह — निक्खमपवेसमंडलि सागारियठाणपरिहियट्ठाइ । मा एक्कासणभंगो अहिगरणं अंतरायं वा ॥ २७५ ॥ ( भा० )
निष्क्रमप्रवेश वर्जयित्वा भोजनार्थमुपविशंति, तथा मण्डलीप्रवेशं च वर्जयन्ति, तथा सागारिकस्थानं च परिहृत्य भुञ्जते, मा भूत् सागारिके प्राप्ते सति एकाशनभङ्गः स्यादिति, 'अधिकरणं' राटिर्वा भवति अन्येन प्रत्रजितेन सह अस्थाने उपविष्टस्य भुञ्जतोऽन्तरायं च भवति, कथं ?, स साधुरन्यस्य सत्के स्थाने भुङ्क्ते उपविष्टः सोऽपि साधुरागतः प्रतीक्षमाण आस्ते, | एवं चान्तरायं कर्म बध्यते । इदानीं दिशा द्वारप्रतिपादनायाह
पञ्चरसिपरंमुहपट्ठिपक्ख एया दिसा विवज्जेत्ता । ईसाणग्गेईय व ठाएज गुरुस्स गुणकलिओ ॥ २७६ ॥ ( भा० )
उरसोऽभिमुखं प्रत्युरसं - गुरोरभिमुखं वर्जयित्वेत्यर्थः, पराङ्मुखश्च नोपविशति गुरोः, तथा पृष्ठतश्च गुरोर्नोपविशति, पक्षके च नोपविशति, एवमेता दिशो वर्जयित्वा ईशान्यां दिशि गुरोराग्नेय्यां वा दिशि 'तिष्ठेत्' उपविशेद्भोजनार्थं गुणकलितः साधुर्यः । इदानीं 'पगासणय'त्ति व्याख्यायते