SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रमृज्य 'ऊर्द्ध' पीठी: 'अधो' भुवि 'तिर्यक्' तिरश्चीनं 'प्रत्युपेक्षेत' निरूपयेत् 'सर्वतः समन्ताच्चसृष्वपि दिक्षु सर्वनैरन्तर्येण, ततः पतग्रहं हस्ते कृत्वा भक्तादि मुरोर्दर्शयतीति वक्ष्यति भाष्यकृत् । इदानीमेतामेव गाथां भाष्यकृदाह, तत्र गुरुदोषत्वात्प्रथममूर्द्धादीनि त्रीणि पदानि व्याख्यानयन्नाह— उडुं पुष्पफलाई तिरियं मज्जारिसाणडिंभाई । खीलगदा रुगआवडणरक्खणट्टा अहो पेहे ॥ २७१ ॥ ( भा० ) उद्यानादी आवासितानां सतां पुष्पफलादिपातमूर्द्ध निरूप्य ततो गुरोर्दर्शयति, तिर्यङ् मार्जारश्वडिम्भानालोक्यालोचयति, मा भूत्ते आगच्छन्तस्तत्पात्रमुत्प्रेर्य पातयिष्यन्ति, आदिशब्दात्काण्डं वा केनचिद्विक्षिप्तमायाति, अतस्तिर्यग् निरूप्यते, तथाऽधो निरूपयति, किमर्थं १, कदाचित्कीलको भवति, तत्रापतनम् - आस्खलनं मा भूदिति, अतोऽधो निरूप्य ततो भक्तादि दर्शयति । इदानीं 'सीसं सपडिग्गहं पमज्जेत्त 'त्ति व्याख्यानयति — ओणमओ पवडेज्जा सिरओ पाणा सिरं पमज्जेज्जा । एमेव उग्गहंमिवि मा संकुडणे तसविणासो ॥ २७२॥ (भा०) हस्तस्थे पतग्रहेऽवनमतः शिरसः प्रपतेयुः प्राणिनः कदाचिदतः शिरः प्रथममेव प्रमार्जयेत्, एवमेव पतन हे प्रमार्जनं कृत्वा प्रदर्शयेद्भक्तादि, किं कारणं ? -'मा संकुडणे तसविणासो 'ति मा भूत्सङ्कोचने सति पटलानां त्रसादिविनाशो भविष्यत्यतः प्रमृज्य पतद्ब्रहं भक्तं प्रदर्शयतीति ॥ काउं पडिग्गहं करयलंमि अद्धं च ओणमित्ताणं । भत्तं वा पाणं वा पडिदंसिज्जा गुरुसगासे ॥ २७३ ॥ (भा०) कृत्वा पतग्रहं करतले अर्ध च शरीरस्यावनम्य पुनर्भक्तं वा पानं वा प्रदर्शयेत् गुरुसगासे इति ॥
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy