SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ HISTORASILISHASHASHIRISH नृत्यन्नालोचयति वलन्नालोचयति अंगानि चलयन्नालोचयति, तथा भाषमाणो गृहस्थभाषया नालोचवति, किं तर्हि :|संयतभाषयाऽऽलोचयति, तद्यथा-सुवारिवाउ इत्येवमादि, तथा चालोचयन् मूकेन स्वरेण नालोचपत्ति मिणिमिणत, तथा ढडरेण च स्वरेण-उच्चै लोचयति, एवंविधं स्वरं वर्जयेत् । किं पुनरसावालोचयतीत्वत आह-आलोचयेत्सुविहितो हस्तमुदकस्निग्धं, तथा 'मात्रक' गृहस्थसत्कं कडच्छुकादि-उदकार्दादि, तथा गृहस्थया कृतमं व्यापारं कुर्वत्या भिक्षा द्वत्तेत्येतच्चालोचयति । इदानीमेतामेव गाथां व्याख्यानयन्नाह-करस्य तथा पादस्य भुवः शिरसः अक्ष्णः ओष्ठस्य च एवमादीनामङ्गानां सविकारं चलनं नर्त्तनं नाम, एतत् कुर्वन्नालोचयति, वलनं हस्तस्य शरीरव कुर्वन्नालोचवति, तथा चलनं कायस्य करोति मोटनं तत्कुर्वन्नालोचयति, तथा भावतश्चलनमन्यथा गृहीतमन्यथाऽऽलोचयति अडविव९ ॥ आलोचयन गृहस्थभाषया नालोचयति, यथा “सुग्गीओ(लंगणीओ) लद्धाओ मंडया लद्धा" इत्येवमादि, किन्तु संयतभाषयाऽऽ' लोचनीयं "सुयारियाउ" इत्येवमादि, मूकस्वरं मनाक् ढड्डरं च महान्तं स्वर वर्जयन्नालोचयति, किमालोचयति ।- व्यापारगृहस्थयोः संबन्धिनं, तथा 'संसृष्टम्' उदकादि , इतरं' असंसृष्टं, किं तत् ?-कर संसृष्टमसंसृष्टं च उदकैन, तथा 'भात्रक' गृहस्थसत्कं कुण्डलिकादि उदकसंसृष्टमसंसृष्टं चेति, एतदालोचयेत् ।। एयहोसविमुकं गुरुणा गुरुसम्मयस्स वाऽऽलोए । जं जह गहियं तु भवे पढमाओ जा भवे चरिमा ॥ ५१७॥ एभिर्दोषैर्विमुक्तमनन्तरोक्तभैक्षमालोचयेद्गुरोः समीपे वा यो गुरोः संमतो-बहुमतस्तस्य समीपे आलोचयेत्, कथमा RRRRAS
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy