________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१७६॥
गाथां भाष्यकारो व्याख्यानयन्नाह - धर्मकथादिना वा व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वा प्रमत्तोऽन्यतोऽभिमुखो वा भवति, भुञ्जतोऽपि नालोचनीयं, किं कारणं ? - ' अंतरं 'ति अन्तरायं वा भवति यावदालोचनां शृणोति, अकारकं वा - शीतलं भवति यावदालोचनां शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं, किं कारणं ?, यत आशङ्कया साधुजनितया न कायिकादिर्निर्गच्छति, अथ धारयति ततो मरणं वा भवति । यस्मादेते दोषास्तस्मात्अवक्खित्ता उत्तं उवसंतमुवट्टिभं च नाऊणं । अणुन्नवेत्तु मेहावी आलोएज्जा सुसंजए ॥ ५१५ ॥ कहणाइ अवक्खित्ते कोहाइ अणाउले तदुवउत्ते । संदिसहप्ति अणुन्नं काऊण विदिन्नमालोए ॥ २३८ ॥ (भा० )
धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत्, आयुक्त - उपयोगतत्परं, 'उपशान्तं' अनाकुलं गुरुं दृष्ट्वा 'उपस्थितं' उद्यतं व ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः' साधुः । इदानीमेतामेव गाथां व्याख्यानयन् भाष्यकृदाह - धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्ते - भिक्षालोचनोपयुक्ते च 'संदिसहति अणुन्नं काऊण' संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा मार्गयित्वेत्यर्थः, 'विदिण्णे'त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवंलक्षणायां तत आलोचयेत् । तेन च साधुनाऽऽलोचयता एतानि वर्जनीयानि –
नहं वलं चलं भासं मूयं तह ढढरं च वज्जेज्जा । आलोएज सुविहिओ हत्थं मत्तं च वावारं ॥ ५१६ ।। दारं ।। करपाय भमुहिसीसऽच्छिउट्टिमाईहि नहिअं नाम । वलणं हत्थसरीरे चलणं काए व भावे य ॥ २६३ ॥ ( भा० ) गारत्थियभासाओ य वज्जए मूय ढहरं च सरं । आलोए वावारं संसट्टियरे व करमत्ते ॥ २७० ॥ ( भा० )
आलोचना विधिः नि.
५१४- ५१६
भा. २६८२७०
॥१७६॥